पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:], - शुक्तिरूप्ये सिद्धसाधनवारणाय ब्रह्मज्ञानेतराबाध्यत्वं पक्षविशे- षणम् | यदि पुनः पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिक देश्या, तदैकदेशे साध्यसिद्धावपि सिडसाधनाभावात् तदारकं विशेषणमनुपादेयम् । इतरराविशेषणद्वयं तु तुच्छे ब्रह्मणि च तेन तत्रानङ्गीकाराच्च । तथापि भास्करादिभिः शुक्त्यादौ सत्य- रजतादि जायत इत्यङ्गीकारात् तदनुयायिना केनचिद्वाघदर्शनान्मि- थ्येति वक्तुं शक्यमिति तं प्रति विप्रतिपत्तौ अबाध्यत्वान्त देयम् । यत् भास्कराद्यन्यैराकांक्षिते प्रयोजने तेन रूपेण विशिष्टे साध्य- सिद्धि: प्रयोजनं वाच्यामिति तन्न, तेन रूपेण विशिष्टे साध्यं साघ- यसि कुत इत्याकांक्षायां उक्त प्रयोजनोक्तेः सचेतसामनुचितत्वात् । तुच्छ इति । नचानिर्वाच्ये सत इव सत्यपि तुच्छस्य संसर्गतया आरो- पसम्भवात् सत्त्वेन प्रतीत्यर्ह तुच्छमपीति वाच्यम् । परस्पराध्या- सानुरोधेन अनिर्वाच्ये सत्तादात्म्याध्यासेऽपि तुच्छतादात्म्यस्य सति आरोपे मानाभावात्सत्तुच्छमित्यप्रतीतेः । एतत् ज्ञापयितुमेव सदभि- न्नमित्यनुक्त्वा तत्समानार्थकमप्यर्हान्तमुक्तम् । अथानिर्वाच्येऽपि कुत- स्सत्तादात्म्यम्, तद्विना सञ्चिद्भास्यत्वानुपपत्तेरितिचेत्, तर्हि तत्रापि तदनन्तरमेवं तत्रापत्यिनवस्था स्वरूपसम्बन्धेन भास्यत्वोपपादनं तु सर्वत्र सममितिचेत् अत्र ब्रूमः - ज्ञानाकाररजतादौ शुक्त्यादि- गतेदंत्वादिसंसर्गाध्यास इति केचित् बौद्धाः इदंत्वादिविशिष्टे रजतादिसंसर्गाध्यास इत्यन्यथाख्यातिवादिनः केचित् । तयोः मतयोः ज्ञानाद्या काररजताद्यंशस्य अप्रामाणिकत्वेऽपि तत्स्वीकृतयोः रजतमिदं इदं रजतमित्याद्याकारयोः वक्ष्यमाणररीत्या भिन्नविषय- कत्वादिमतोः अविनिगम्यत्वात् । रजतादिसंसर्गमात्रे अध्यस्ते रजता- देरपरोक्षत्वायोगात् । इदमादेश्च स्त्राकारवृत्तिनिर्गमेनापरोक्ष्यस्य सम्भ- पक्षतावच्छेदकविचार: 7 -