पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यानां गुरुचन्द्रिकायां [ प्रथम: अत्रच पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धे रुद्देश्यत्वात् पक्षैकदेशे साध्यसिद्धावपि सिद्धसाधनतेति मते ब्रह्मत्वतुच्छत्वावच्छेदेन साध्यहेत्वोरभावधीः अन्यपक्षतावच्छेदकाव- च्छेदेन साध्यहेतुज्ञानं न विरुणद्धीति न बाधासिद्धी, किंतु अनुमितेर्भ्रमत्वं स्यात् । अतोऽन्यविशेषणे इति, तत्तुच्छम् । अवच्छेदकावच्छेदेन अनुमितेरुद्देश्यतायां सत्यन्ताभावेन पक्षताव- च्छेदकीभूतेतरविशेषणद्वयान्यतरावच्छेदनानुमितौ तत्सामानाधिकरण्येन ब्रह्मतुच्छयो: साध्यहेत्वभावाधियोर्विरोधित्वेन बाधासिद्धयोरावश्यक- त्वात् । पक्षतावच्छेदकसामानाधिकरण्येन अनुमितेरुद्देश्यत्वे तु अबा- ध्यत्वान्तमेव पक्षतावच्छेदकम् । अन्यथा वियदादावेव सामाना- धिकरण्येनानुमितेः प्रमात्वसम्भवात् भ्रमत्ववारणस्यापि उक्तविशेषण- फलत्वासम्भवात् । यदपि शुक्त्यादिज्ञानमपि ब्रह्मप्रमेति शुक्ति- रजतादौ सिद्धसाधनम् । शुद्धं ब्रह्म न विषय इति मते वियदादेरपि ब्रह्मप्रमान्यबाध्यत्वात् पक्षालाभश्च । अतः सप्रकारकेति ब्रह्मप्रमातरिक्तस्थानीयं वाच्यमिति । तदपि तुच्छम्, शुक्तयादि- ज्ञानस्य शुक्तयाद्यवच्छिन्नचिद्विषयकत्वेऽपि शुद्धचिदविषयकत्वात् । अन्यथा हि ब्रह्मप्रमान्यबाध्यत्वा प्रसिद्धिरेव वाच्या स्यात्, न सिद्धसा- धनम् । ब्रह्मप्रमापदेन ब्रह्मान्याविषयकोक्तौ सिद्धसाधनाभावाच्च । शुद्धं ब्रह्म न विषय इति मतेऽपि वृत्त्युपहितब्रह्मान्याविषयकस्योक्तावदो- षात् । किंच नायं स इति भेदादेः सोयमित्यादिनिष्प्रकारकेण बाध्यत्वात्तव कथं न सिद्धसाधनम् । यद्यपि शुक्तिरजतादौ सिद्ध साधनं वाच्यम् न तार्किर्केण नाप्यानन्दतथियेन । तेन तत्रासद्वि- लक्षणत्वानङ्गीकारेण अर्हांतेनैव तद्वारणात्, सदसद्विलक्षणत्वादिसाध्यस्य ! भावपि 6 · ! -