पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] विप्रतिपसिवाक्यस्य विनाराङ्गत्वनिरूपणम् 5 ब्रह्मप्रमातिरिक्तावाव्यत्वे सति सच्चेन प्रतीत्यई चिनिं प्रतिपन्नोपाधौ त्रैकालिकनिषेत्रप्रतियोगिन वा, पारगार्थक- त्वाकारेणोक्तनिषेध प्रतियोगि न वेति । कथमथ कथयामो दूषितं' तत्तथापि स्मितमितकुतुकार्थानर्थतश्श्रावयामः || , अत्रोक्तं वाद्यादीनां विशेषदर्शनात्क्वापि संशयं प्रत्यनुपधाय- कत्वात्स्वरूपयोग्यैव विप्रतिपत्तिः । वाद्यादीनां विशेषदर्शनं च कथापूर्व समयघटकत्वज्ञापकपरीक्षादिना सिद्धम् । परपक्षमालम्ब्य अहंकारिणः प्रवृत्तिः ख्यात्याद्यर्था । व्युदसनयितया सभ्यादेः संशयोऽपेक्षितोपि वादिनोः प्रत्येककोट्युक्तिभ्यां भविष्यति, किं विप्रतिपत्त्येति । तत्र वाद्यादेः निश्चये त्वया शपथेन निर्णीतप्यन्यत्र संशयोपधान- सम्भवेन स्वरूप योग्यत्वाक्षतेः कथापूर्वमापात परीक्षया निश्चयानुमितावपि निश्चयानावश्यकत्वात् । स्वरूपसान्निश्चयो हि विरोधी, न तु तस्य ज्ञानम् । क्वचित्ख्यात्याद्यर्था प्रवृत्तिस्तु ममापि सम्मता । सभ्येषु संशयस्य विप्रतिपति विना उक्तिस्तु व्यर्था । न हि संशयोऽपे- क्षितः, अपितूक्तरीत्या प्रवृत्तिप्रयोजकफलविशेषणतया तद्धीः । सा च कथाप्रवृत्तेः पूर्वं वादिनोर्विप्रतिपत्त्यैवोक्तरीत्या सम्भवति, सभ्या- नामपि निश्चये वादिभ्यां निश्चितेऽपि विजयाद्यर्थमेव तयोः प्रवृत्ति - रित्युक्तं, वादकथायामेव तत्त्वनिर्णयफलनियमात् । ब्रह्मप्रमाति- रिक्ताबाध्य इति । तादृशबाध्यत्वं तादृशबा योग्यत्वं पल्लवा- ज्ञानतत्कार्यान्यतरत्वम् । तेन न ब्रह्मप्रमापूर्वमबाचितप्रातिभासिकविशेषे सिद्धसाधनतादवस्थ्यम् । पल्लवाज्ञानानङ्गीकारे तु प्रातिमासिकान्यत्वमेव सत्यन्तार्थः । तुच्छब्रह्मणोः बाघासिद्धिवारणायान्यविशेषणे । यत्तु न 1 दषणं date