पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैत सिद्धिव्याख्यायां गुरुचन्द्रिकाया [प्रथम: स्वरूपयोग्यत्वात् वाद्यादीनां च निश्चयवस्वनियमाभावात् । निश्चितौ हि वादं कुरुत इत्याभिमानिकनिश्चयाभिप्रायं पर पक्षमालम्व्याप्यहंकारिणो विपरीतनिश्चयवतो जल्पादौ प्रवृत्ति दशनात् । तस्मात् समयबन्धादिवत्स्वकर्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव । तत्र मिथ्यात्वे विप्रतिपत्ति:- 4 स्वरूप योग्यत्वादिति । “समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपल- ब्ध्यव्यवस्थानाच विशेषापेक्षो विमर्शस्संशयः” इति न्यायसूत्रस्य साधारण- धर्मरूपसमानधर्मस्य असाधारणधर्मरूपानेकधर्मस्य वा ज्ञानात् विप्रति- पत्तिवाक्याद्वा विशेषघीरूपोपलब्धेः बाधाभावरूपानुपलब्धेरितरकोटिव्या- प्यादर्शनरूपाव्यवस्थानाच धर्मिज्ञानरूपविशेषापेक्षो विरुद्धनानाकोटि- ज्ञानरूपविमर्श: संशय इति व्याख्याने संशयो विप्रतिपत्त्यादिजन्य तामाश्रित्येदम् । विप्रतिपत्त्यादिप्रयोज्यः स इत्यर्थे तु विशेषणधीविषया संशयस्वरूपयोग्यकोटिद्वयोपस्थितिजनकपदघटतत्वादि त्यर्थः । तथाच यत्र विप्रतिपत्तेः संशयस्य जननद्वारा न ज्ञापकत्वं तत्र सम्बन्धितया संशयस्मारकतया उपयोग इति भावः । बाधादी- नामिति । तथाच वादिनोर्मध्यस्थस्य च निश्चये तदन्येषां सभापत्या- दनिां संशयापसरणं फलम् । तेषामपि निश्चये त्वाह-तस्मादिति । समयः सिद्धान्तस्तस्य बन्धो विचाराश्रयतया नियमः एतन्मत एव त्वया वाच्यमित्याकारः । स्वकर्तव्यति- कथकसम्प्रदायानुल्लङ्घनरूपे- त्यादिः, विचारे प्रवृत्तिस्तु विजयादिफलेनेति भावः । प्रलपितमिह मन्दैर्मन्दर्षाबन्धुबन्धं श्रुतसमितसमाजे मन्दमन्दाक्षदक्षम् । 1 [बद्धं (पा) - CHAD