पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद: ] विप्रतिपत्तिवाक्यस्य विचारात्वनिरूपणम् विप्रतिपत्तिवैयर्थ्यात् । तथापि विप्रतिपत्तिजन्यसंशयस्यानु- मित्यनङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्येव तादृशसं- शयं प्रति विमतिपत्तेः क्वचिनिश्चयादि प्रतिबन्धादजनकत्वेऽपि 3 अनुमित्यनङ्गत्वे अनुमितिं प्रत्युक्तरीत्या प्रयोजकत्वाभावे । व्युदमनीयतया विचारप्रयुक्ताभावप्रतियोगितया विचाराङ्गत्वं विचारप्रवृत्तिप्रयोजकज्ञानविषये फले प्रतियोगितया विशेषणत्वम् । मिथ्यात्वसंशयाभावरूपफलं ज्ञात्वा तदुद्देशेन विचारे प्रवर्तत इत्यर्थः । पञ्चावयवसपरिकरन्याय रूपविचाराभावे हि मिथ्यात्वस्य अनिश्चयात्सं- शयः । ततश्च सन्दिग्धाद्वैततात्पर्यसंशयरूपाद्दोषादेकमेवाद्वितीयमित्यादि- वेदान्तवाक्यादपि संशय एव जायते न निश्चयरूपाद्वैतसिद्धिः । ततश्च तत्त्वमस्यादिवाक्यादपि नाद्वैतब्रह्मणि जीवैक्यनिश्चयः, अद्वैतब्रह्मण एवानिश्चयात् । यद्वा - अस्तूक्तवाक्यान्निश्चय एव, प्रत्यक्षस्यैव संशयत्वात् । तथापि वियदादिप्रपञ्चामथ्यात्वसंशये तद्विरोधिब्रह्मात्मै- क्येsपि मिथ्यात्वसंशय । तत औचित्यावर्जितो मिथ्याविषय- कत्वरूपाप्रमांत्वस्य तत्त्वमस्यादिवाक्यजे उक्तैक्यज्ञाने संशयः । तथाच निश्चयरूपस्याप्रमात्वेन अग्राह्यस्य वा उक्तैक्यज्ञानस्येष्टस्य विरोधितया, सुखविरोधितया सुखविरोधिनीव, प्रपञ्चमिथ्यात्वसंशये द्वेषो, द्विष्टाभावतया च तदभाव इष्टः । मिथ्यात्वनिश्चयद्वारा तत्प्रयोजक- तया च विचार इष्टः । यद्वा व्युदननीयतयेति इष्टतावच्छेदकभूित- भेदप्रतियोगितयेत्यर्थः । संशयान्यमिथ्यात्वज्ञानत्वं हि इष्टतावच्छेदकं उक्तैक्यज्ञानरूपेष्टविरोधिमिथ्यात्व संशयावरोधितावच्छेदकत्वेन सुखवि- रोधि विरोधितावच्छेदकतद्गुहत्वादिवत् सर्वदा विप्रतिपत्तिरावश्यकी तां विना संशयस्य अनुत्पत्तौ विशेषणस्य संशयस्य ज्ञानाभावे संश- याभावरूपफलज्ञानाभावेन तदुद्देशेन प्रवृत्त्यसम्भवादिति भावः ।