पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्याथां गुरुचन्द्रिकायां [ प्रथम: उपयोगः, विप्रतिपत्तिजन्य संशयस्य न पक्षतासम्पादकतया सिषाधयिषाविरह सहकृतसाधकमानाभावरूपायास्तस्याः संश. गाघटितत्वात् । अन्यथा श्रुत्यात्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात् वाद्यादीनां निश्चयवत्वेन संशयास- म्भवादाहार्य संशय ख्यातिप्रसंजकत्वाच्च । नापि विप्रतिपत्तेः स्वरूपत एव पक्षप्रतिपक्षपरिग्रहफलतया उपयोगः, त्वयेदं साधनीयमनेनेदं दूषणीयमियादिमध्यस्थवाक्यादपि तल्लाभेन 2 गुरुचन्द्रिका . 3 सदनन्तचिदानन्दे जगती यत्र जायते । रजतादीव शुक्तयादौ तदेवाहं परा गतिः ।। तत्त्वं वेदय वेदगं नरहरे नैषोऽधिकारीति चेत् स्तम्भादाविरभूः कुतोऽसुरतमश्चण्डांशुतामाश्रितः । द्रोहेणापि न ते स्मरत्ययमतो नेहानुकम्पेति चेत् तत्किं त्वं न तदीश यद्यदनिशं स्नेहादितस्स्मर्यते ॥ सरस्वती स्वामिमहा सरस्वती सरस्वती स्वामिमहा सरस्वति । निस्सार्य सारस्वतसारिकार्य सारस्वतः सारसतर्करत्नम् ॥ श्रीनारायणतीर्थ श्रीपरमानन्दपादयोः । ब्रह्मानन्दयतिर्नत्वा तनोत्यद्वैतचन्द्रिकाम् || सारस्वत समुद्रेकश्चन्द्रिकायाः परं फलम् । प्रासङ्गिकतया ध्वान्तपराभूतिरपि ध्रुवा || कुमुद्वतीबोधयामि सारस्वतसरस्वतीः । महदामोदमादाय चित्त चन्द्रिकयाऽनया || 5. 1 मधुसूदनसरस्वती 2 नदी. 8 वाणी. 4 समुद्र. 5 पाठान्तरं (चित्र.)