पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्या अद्वैतसिद्धिः अद्वैत सिद्धि : मायाकल्पितमातृतामुखमृषाद्वैतमपञ्चाश्रयः सत्यज्ञानसुखात्मकः श्रुतिशिखोत्था खण्डधीगोचरः । मिथ्यांबन्धविधूननेन परमानन्दकतानात्मकं मोक्षं प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झितः ॥ श्रीरामविश्वेश्वरमाधवानामैक्येन साक्षात्कृतमाधवानाम् । स्पर्शेन निर्धूनतमोरजोभ्यः पादोस्थितेभ्योस्तु नमो रजोभ्यः॥ बहुभिर्विहिता बुधैः परार्थ विजयन्तेऽमितविस्तृता निबन्धाः | मम तु श्रम एष नूनमात्मंभरितां भावयितुं भविष्यतीह || श्रद्धाधनेन मुनिना मधुसूदनेन संगृह्ण शास्त्रनिचयं रचिताऽतियत्वात् । बोधाय वादिविजयाय च सत्वराणां अद्वैत सिद्धिरियमस्तु मुदे बुधानाम् ॥ तत्राद्वैत सिद्धैत मिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्व- मेव प्रथममुपपादनीयम् । उपपादनं च स्वपक्षसाधनपरपक्ष- निराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयम् । तत्र विमतिपतिजन्य संशयस्य विचाराकत्वात् मध्यस्थनादौ विमतिपत्तिः प्रदर्शनीया । यद्यपि