पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16 "अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: एतच घटादिसाधारणम् । अत एव तत्रापि सन्दिग्धानैकान्ति- तियोगिकतादात्म्यस्याभानादुक्तविषयत्वावाच्छन्नरजतादिप्रकारतामात्रभा- नेन उक्ताकारसम्भवात् । न हि परमतेऽपि उक्ताकारे तदनु- व्यवसाये वा रजतादिप्रतियोगिकतादात्म्यं भातीति नियमः । न च तादात्म्यसम्बन्धेन द्रव्यत्वादिविशिष्टे घटादावपि घटत्वाद्यव- च्छिन्नस्य उत्पत्त्या केवलतादात्म्येन कार्यो व्यभिचारापत्त्या कपा- लादिनिष्ठतादात्म्येनैव घटादेः कपालादिकार्यत्वान्नोक्तदोष इति वा- च्यम् । तथाप्याघारताविशेष दिसम्बन्धन संयोगत्वरूपत्वदुःखत्वा - चवच्छिन्नं प्रति व्यत्वरूपत्वपापत्वा दिना हेतुत्वस्य कॢप्तत्वात्तद- वच्छिन्न प्रकारताक भ्रमस्थले उक्तरीत्या व्यभिचारस्य दुर्वारत्वात् । न चेदं संयोगवदित्यादिभ्रमस्थले संयोगादिविशेष्यतावच्छेदेन इद- माघेयत्वस्येवेदंविशेष्यतावच्छेदेन संयोगाद्याधारत्वस्योत्पत्तिः सम्भ- वति, तादृशाघारत्वसांसर्गिकविषयत्वस्य इदंविशेष्यतावच्छिन्नत्वेनै- बोक्ताकारसम्भवेन उक्ताधारत्वस्य इदमनुयोगिकत्वाभावेनाधारता- सम्बन्धेन संयोगादिकं प्रति द्रव्यत्वादिना हेतुत्वे व्यभिचाराभावादिति वाच्यम् । विशेष्यावच्छिन्नस्य विशेषणसम्बन्धस्यैव प्रमाश्रमयोः विशेष्या नुयेगिकत्वमित्यस्योकत्वात् । आधारताविशेषेण चिति संयो- गत्वाद्यवच्छिन्नोत्पत्त्या व्यभिचारावश्यकत्वात् इदंतादात्म्यादिसंसर्गस्य मिथ्याभूतस्य अमस्थले उत्पत्तौ साधकत्वात् । यद्यपि रजतादौ प्रतियोगितया अनुयोगितया वा सम्बन्धेन उक्ततादात्म्यस्य न अमे प्रसक्तिः, तथापि स्वविषयतावच्छेदकप्रकारतावत्त्वसम्बन्धस्य ' प्रसक्तया तेन सम्बन्धेन बाधः सम्भवत्येव । न च मिथ्याभूतरजतादिसंसृष्ट- तथा तस्य मिथ्यात्वमनुभूयते न तु स्वत इति वाच्यम् । रजतादेर्भि- 1. संबन्धेन.