परिच्छेदः] आगमबाध्यत्वविचारः 323 र्थप्रतीत्यर्थमेव लक्षणाङ्गीकारादमुख्यार्थत्वं न स्यात् । न स्याद्यद्यादित्यसदृशो यूप इति वाक्यार्थपर्यवसानं स्यात् । किन्तु गुणवृत्त्या प्रतीतस्यापि वाक्यार्थस्य ' यूपे पशुं बध्नाति' इति विधिशेषत्वेन तत्प्राशस्त्यलक्षकत्वमस्त्येव । तेनैव नामुख्यत्व- मत्रैवादित्यपदगौणतयेति तत्सिद्धिपेटिकायां सर्वोदाहरणेष्ववा- न्तरवाक्यार्थप्रतीतये गुणवृत्तिप्रकाराः प्रदर्शिता इति द्रष्टव्यम् । कर्मप्राशस्त्यलक्षणा च सर्वार्थवादसाधारणी तत्रास्त्येवेति नामु- ख्यार्थत्वानुपपत्तिः । अत उपपनं प्रस्तरादिवाक्यवैषम्यमद्वैत- मुक्तन्यायाभावेऽपि न क्षतिः । अध्वरमीमांसकैः भूतार्थवादानामपि स्वार्थे प्रामाण्यं न स्वीक्रियते । तन्मते ' यन्न दुःखेन' इत्यादिस्वर्गादि- फलप्रतिपादकवाक्यानामपि प्रामाण्यं न स्यात्, अर्थाीयः प्रमात्वं बिनापि स्वर्गस्तुतिद्वारा महावाक्यार्थोपकारकत्व सम्भवात् । अथ मानान्तरप्राप्ति- विरोधहीनार्थाविषयकत्वेन यन्न दुःखेनत्यादौ प्रमात्वं बलादायातीति वाच्यम्; तत् 'इन्द्रो वृत्राय' इत्यादावपि समानमित्याशयेनाह- अयमेवेति । पर्यवसानं तात्पर्यम् | वाचस्पत्यन्यमतेऽपि मुख्यार्थत्वं निर- स्यति–किन्त्वित्यादि । तेनैवेति । तथाच स्वार्थे मुख्यतात्पर्याभावात् मतान्तरेऽपि न मुख्यार्थतेति भावः । कर्मप्राशस्त्येति । इष्टसाधनत्वविध्य- र्थमते बलबदनिष्टाजनकत्वरूपप्राशस्यं धात्वर्थे कर्मण्यवान्वितम् ; तस्यैव प्रवृत्तिविषयत्वात् शब्दभावनाया विध्यर्थत्वेऽपि करणेतिकर्तव्यता- विशिष्टार्थभावनायां प्राशस्त्यस्यान्वयात् । उक्तभावनाकरणे धात्वर्थेपि तदन्वयोsस्त्येव । उक्तार्थभावनायां प्राशस्त्यप्रकारशाब्दबोधस्य परं इतिकर्तव्यतात्वेन शब्दभाबनायामन्वयः । विवेचितं चेदमस्माभिः सिद्धान्तबिन्दुटीकायाम् । अस्त्येवेति । अन्यथा ' विधिना त्वेकवाक्य- त्वात् स्तुत्यर्थेन विधीनां स्युः' इत्यर्थवादाधिकरणोतं विध्याकांक्षिता. .1 विध्यर्थत्वमतेऽपि. , · 21*
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४३
दिखावट