पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

324 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः वाक्यस्य । यच्चोक्तमर्थवादमुख्यार्थत्वाय विधौ न लक्षणेत्येवं- परं शबरस्वामिवचनमिति, तन्न; अश्वप्रतिग्रहेष्टौ 'प्रतिगृडीयात् ' र्थबोधकत्वं न स्यात् । न वा अध्ययन विधिविषयत्वं स्यात्, प्रयोजन- चदर्थापर्यवसानात् । न हि द्वारभूतो वाक्यार्थी विध्याकांक्षितोऽनाकां- क्षितो वा प्रयोजनवान् । न च निष्प्रयोजने साकांक्षे श्रुतेर्मुख्यतात्प- र्यम् । अतएव 'अर्थेऽनुपलब्धे तत्प्रमाणम्' इत्यनेन अर्थशब्दितसत्प्रयो- जनेऽनधिगत एव तत्तात्पर्यमुक्तमिति भावः । अश्वप्रतिग्रहेत्यादि । “प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्छत् सपर्यदीर्यंत स एतं वारुणं चतुष्कपालमपश्यत् तन्निरवपत् ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं गृह्णाति योऽश्वंप्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान् निर्वपेत्" इत्यनारभ्यश्रुतेष्टिरभिमत्कर्म - सम्बन्ध्यश्वदाननिमित्तिका तादृशाश्वदानाङ्गं वेति पूर्वाधिकरणेन निर्णीतापि दातुः प्रतिग्रहितुर्वेति संशये, यद्यप्युपक्रमाधिकरणन्यायन दातुरेव सम्भ- वति, "अनयत् प्रापयत् देवतां दानसंप्रदानवरुणरूपां जलोदररू- पेण परिणतां, आर्छत् प्राप्तवान्, वरुणपाशात् जलोदरात्, गृह्णाति जलोदररूपेण प्राप्नोति " इत्यर्थात् ; तथापि मैत्रायणीयशाखायां- “ अथैषोऽश्वः प्रतिगृह्यते स वा उभयतोदन्प्रतिगृते निर्बभस्त्यस्येन्द्रियं च पशूंश्च वरुणो वा अश्वो वरुणदेवत्यो यो वा अश्वं प्रतिगृह्णाति वरुणं स प्रदीति तदश्वहविषा यष्टव्यं निर्बरुणत्वाय चतुष्कपाला भवन्ति चतुष्पाद्धयश्वः कपालेरेवैनमाप्नोति यावन्तोऽश्वास्तावन्तः पुरोडशा भवन्ति सर्वत एवैनं मुञ्चति " इति वाक्ये प्रतिग्रहोपक्रमाया एवैतदिष्टेरामानात् तदनुरोधेन शाखान्तर्रायोक्तवाक्यीयोपक्रमस्थेऽनयदित्यादिपदे प्रतिग्रह- लक्षणेति प्रतिग्रहीतुरेवेयमिति प्राप्ते, दातुरेवेयम्, मैत्रायणीयवाक्ये तथावगमेऽपि उक्तवाक्ये प्रबलोपक्रमे लक्षणायां मानाभावात् तद्वलेन ,