पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

322 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः यथा 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादौ । अयमेव देव- ताधिकरणन्यायः । ननु तर्हि 'आदित्यो यूपः' इत्यादौ वाक्या- - बाक्यार्थ एव श्रुतेः मानान्तरापेक्षया प्राबल्याङ्गीकारात् प्रस्तरादिवाक्ये तदसम्भवात् गौणार्थघटितवाक्यार्थेनैव प्राशस्त्याद्युपपादनसम्भवात् बाधितार्थस्यानन्यथासिद्धप्रयोजनवत्वाभावात् तादृशप्रयोजन स्तात्पर्यात् । अतएव तत्सिद्ध्यधिकरणे बाधितार्थकस्थले गौणार्थ- व्यवस्थापनात् न श्रुत्या' बाधितार्थसिद्धिः । यद्यपि मतान्तरे संसर्ग- प्रमितिशतत्वं वाक्यतात्पर्य, तथापि वाचस्पतिमते निराकांक्षप्रमिति शक्तत्वस्यैव तत्त्वान्न भूतार्थवादानां वाक्यार्थीभूत ' संसर्गतात्पर्यम् । यदि च समिदाद्यङ्गवाक्यानां स्वार्थे तात्पर्यमावश्यकी च मुख्यार्थता, तदा प्रयोजनवद्वाक्यार्थान्वयिसंसर्गो निवेश्यः । प्रयोजनं च इष्टत्वेन प्रतीयमानं स्वर्गादि । अस्ति च तादृशसंसर्गप्रमितिशक्तत्वं समिदादि- बाक्ये ; स्वर्गाद्यन्वितप्रधानकरणकभावनारूपवाक्यार्थे समिदादिवाक्य- प्रमितसमिदाद्युपकारसंसर्गान्वयात् । नास्ति च भूतार्थवादे ; 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिवाक्यार्थस्य अन्यत्रानन्वयात् । निरा- कांक्षत्वं वा प्रयोजनवत्त्वं प्रकृते वाक्यार्थस्य बोध्यम् | संसर्गश्च सर्वमतेषु स्वघटकपदार्थप्रतियोगिको वाक्यतात्पर्यलक्षणे निवेश्यः । अन्यथा पदे अतिव्याप्तेः । वस्तुतस्तु संसर्गस्य तादृशस्य निवेशे अखण्डार्थ के सोऽ- यमित्यादिवाक्ये अव्याप्तयापत्तेः प्रयोजनवद्वाक्यार्थघटको यः पदवृत्ति- द्वयप्रतिपाद्योऽर्थस्तत्प्रमाशक्तत्वं वाक्यतात्पर्य वाच्यम् । अखण्डार्थवाक्ये अखण्डस्यैवार्थम्य प्रयोजनवतो वाक्यार्थस्य घटकः । स एव प्राशस्त्या- न्वितवाक्यार्थस्य घटकः । प्राशस्त्य 'मेकयैवार्थवाद वाक्यलक्षणया” प्रतिपाद्यते, न तु पदवृत्तिद्वयेनेति न भूतार्थवादे मुख्यत्वापात्तीरीति ध्येयम् । देवताधिकरणेति । चतुर्लक्षणीस्थेत्यादिः । तेन द्वादशलक्षण्या- 1 तात्पर्याविषयवाक्यार्थ. 4 वाक्यार्थे भूत. 5 प्राशस्त्यान्वित. प्रयोजनवत्त्वं च (वा). 8 स्थापनात् श्रुत्या. 6 वादलक्षणया.