पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः 319 । शक्यार्थपरित्यागेऽपि विधितात्पर्यानवाहात् नामुख्यार्थत्वम् । न हि वाक्यार्थप्रतीत्यन्यथानुपपच्या पदमात्रे लक्षणायामाप वाक्यस्या- मुख्यार्थत्वम् । प्रततिस्यार्थस्यानन्यशेषत्वेन मुख्यत्वात् । यत्र पुनः प्रतीत एवार्थोऽन्यशेषत्वेन कल्प्यते, तत्र वाक्यस्या मुख्यार्थत्वमेव अन्यद्धि पदतात्पर्य, अन्यच्च वाक्यतात्पर्यम् । 'सैन्धवमानय, गङ्गायां वसन्ति' इत्यादौ वाक्यतात्पर्यैक्येऽपि पदतात्पर्यभेदात् ज्ञानसाधनविचारस्य करणत्वेनाथशब्दोपस्थितेष्यमाणमोक्षस्य कर्मत्वेना - न्वय इति भाट्टमतरीत्या न दोषः । अस्मन्मते तु कर्तव्येत्यपि नाध्याहार्य, ज्ञानरूपेष्टसाधनत्वस्य विचारे जिज्ञासा पदेनैव लाभाद्विचारा- न्वितमुमुक्षानन्तर्यार्थका’थशब्दोपात्तमोक्षसाधनत्वस्य ज्ञाने पश्चाल्लाभ- सम्भवादिति । अर्थस्य वाक्यार्थस्य | अनन्यशेषत्वेन स्वप्रति- पादकवाक्यतात्पर्यविषयत्वेन | अन्यशेषत्वेन स्वप्रतिपादकवाक्यतात्पर्य - विषयप्राशस्त्याद्युपपादकत्वेन । द्वारभूते वाक्यार्थे तात्पर्य स्वीकारात् विवरणकारादिमतेऽपि मुख्यतात्पर्यास्वीकारात् उक्तमुख्यार्थलक्षणं नास्ती- त्यर्थः : । ननु स्वप्रतिपाद्यवाक्यार्थभिन्नतात्पर्यकत्वरूपमुख्यार्थकत्वं नार्थ- बादेषु सम्भवति, पदविधया तेषां प्राशस्त्याप्राशस्त्यबोधकत्वेन तत्ता- त्पर्याभावात् । प्राशस्त्यादिघटितविध्यर्थे तु सार्थवादविधेस्तात्पर्यं, न तु केवलार्थवादस्य | यदि प्राशस्त्या दावप्यर्थवादस्य तात्पर्यमुच्यते; तथापि तात्पर्यविषयार्थप्रतिपादकत्वरूपं मुख्यार्थत्वं स्यात् । न चार्थपदेन + वाक्यार्थनिवेशात् तद्दोष इति वाच्यम्; प्राशस्त्यादेरप्यर्थवादात्मक- वाक्यार्थत्वात्, अत आह— अन्यद्धीति । वाक्यतात्पर्येक् इति । लवणतुरंगयोः सैन्धवपदतात्पर्यभेदेऽपि 'सैन्धवमानय' इति वाक्यस्य स्वघटकपदार्थयोः संसर्गे तात्पर्यैक्यमित्यर्थः । यद्यपि पदतात्पर्य इव वाक्यतात्पर्येऽपि लबणादिपदार्थभेदनिवेशः, तथापि वाक्यार्थस्यापूर्वत्वा- 1 कर्तव्यत्वेना. 2 र्यात्मका. 8 तात्पर्या. 4 चार्थवादेन. ,