अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः मत्वर्थलक्षणायामपि स्वार्थापरित्यागाच्च नामुख्यार्थत्वम् । जिज्ञासा- पदे तु ज्ञाधातुना इष्यमाणज्ञानलक्षणाङ्गीकारानङ्गीकारमत- भेदेजप सन्पदस्य विचारे जहल्लक्षणाभ्युपगमस्योभयत्र तुल्यत्वात् । एतस्यैव ' रेवतींषु वारवन्तीयमभिष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' इत्यादावुक्तविशेषणस्य लौकिक प्रमाणाज्ञातत्वेन विशिष्टविधे: तद्धी सापेक्षत्वादुक्तान्योन्याश्रयः । सोमेनेत्यादौ तु सोमादे: लौकिक- मानज्ञातत्वान्न स इत्यत आह - मत्वर्थलक्षणायामपीति | सोमादि- पदे सोमादिरूपस्वार्थ सम्बन्धलक्षणायामपीत्यर्थः । यद्यपि पदमात्रस्य स्वार्थपरित्यागेऽपि तात्पर्यविषयवाक्यार्थबोधकत्वान्मुख्यार्थत्वमव्याहत - मिति वक्ष्यते; तथापि पदस्य मुख्यार्थत्वात् वाक्यस्यापि तदिति कुचोद्यं परस्यानवकाशमित्याशयेनेदमुक्तम् । अमुख्यार्थपदघटितत्वेन वाक्यस्यामुख्यार्थत्वे पदमात्रस्य संसर्गलाक्षणिकत्वमते वाक्यमात्रम् | मतान्तरेऽपि सोऽयमित्याद्यखण्ड र्थवाक्यं तथा स्यात् । अतः शक्या- घटितार्थ कपदघटितत्वमेवामुख्यार्थत्वं वाक्यस्य परेणापि वाच्यमिति तद्रीत्यापि प्रकृते न दोष इति भावः । इष्यमाणज्ञानेत्यादि । इष्य- माणत्वेन पदादनुपस्थितस्य साधनाकांक्षाविरहेण साधनत्वेन सम्बन्धेन विचारे तदन्वयासम्भवात्तेन रूपेण धातौ लक्षणेति श्रीमदाश्रमप्रभृतयः केचित् । तथा सति विचारस्यापि साधनत्वेन अनुपस्थितस्य साध्या- कांक्षाबिरहेण तेन रूपेण लक्ष्यत्वापत्तिः । अथ तथाऽनुपस्थितस्यापि विचारस्यान्वयाईत्वे बाधकाभावः, अन्वयप्रयोजकरूपवत्त्वस्य योग्यतात्वा- नभ्युपगमात्, तर्हि धातौ लक्षणा व्यर्थेत्यपरे । सन्पदस्येति । यद्यपि प्रत्ययार्थस्य विचारस्य प्रकृत्यर्थज्ञानोद्देशेन विधानं न सम्भवति. एक- पदोपस्थाप्ययोः 'वषट्कर्तुः प्रथमभक्ष: ' इत्यत्र भक्षप्राथम्ययोरिव उद्देश्यविधेयभावासम्भवात् ; तथापि कर्तव्येत्यध्याहृतंपदार्थभावनांयां 2 कर्तव्य इत्यध्या. A 1 तव. 318 2
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३८
दिखावट