पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

320 अद्वतासादिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः 1 तथाच ‘विषं भुङ्क्ष्व' इत्यादौ पदतात्पर्याभेदेऽपि वाक्यतात्पर्यभेदात् । अतएव ' इयं गौः क्रय्या बहुक्षीरा' इत्यादिवाक्यार्थस्यावश्यं क्रेतव्येति विधिशेषत्वेन तत्प्राशस्त्यलक्षणकत्वात् 'सोऽरोदीत्' इत्यादिवाक्यार्थस्य च 'बर्हिषि रजतं न देयं हिरण्यं दक्षिणा' इति विधिशेषत्वेन रजतनिन्दाद्वारा तत्प्राशस्त्यलक्षकत्वात् ' सर्व खल्विदं ब्रह्म तज्जलान्' इति वाक्यार्थस्य 'शान्त उपासीत ल्लवणकर्मतात्वेन निवेशासम्भवात् सैन्धवपदार्थकर्मतात्वेन निवेशात् वाक्यतात्पर्यैक्यम् । अथवा ऐक्येपीत्यादेः पदार्थविषयकत्वेन ऐक्येऽपि पदतात्पर्यभेदात् संसर्गविषयकान्यत्वादित्यर्थः । विषमित्यादि । विष- भोजनेष्टसाधनत्वे तद्धीद्वारा द्विषदन्नभोजनानिष्ट' साघनत्वे च तात्पर्य - योर्भेदेऽपि बिषादिपदानां विषादावेव तात्पर्यमित्यर्थः । स्वतात्पर्यविषयो यः स्वघटकपदार्थसंसर्गः तत्प्रतिपादकत्वं मुख्यार्थत्वं नार्थवादेषु स्वघटकपदार्थसंसर्गभिन्नतात्पर्यकत्वममुख्यार्थत्वम् तेषु प्राशस्त्यादितात्पर्यकत्वादस्त्येवेति भावेनाह -- अत एवेत्यादि । लक्षण- कत्वादिति । तथाच पुरुषेच्छाघटिततात्पर्यस्य वेढ़े अभावेऽपि तत्प्रतीतिशक्तत्वरूपं पदतात्पर्य अर्थवादेष्वव्याहतमिति भावः । सोरोदीदित्यादीति । “ सोऽरोदीधदरोदात्तद्रुद्रस्य रुद्रत्वं यदवशीर्यत तद्जत हिरण्यमभवत्तस्माद्रजत हिरण्यमदक्षिण्यमश्रुज हि यो बर्हिषि ददाति पुराऽस्य संवत्सराद्गृहे रुदन्ति तस्माद्वर्हिषि रजत ५ न देयम् " इत्यत्र बर्हिश्शब्दितयज्ञे रजतदानं निषिध्यते । 'यथाश्रद्धं दक्षिणां ददाति' इत्यादिना सामान्यविहितदक्षिणादाने रजतस्य स्वेच्छाप्राप्तत्वेन शास्त्राप्राप्तत्वान्न विकल्पः । 'हिरण्यं दक्षिणा' इति विधिशेषोप्य- भवदित्यन्त पूर्वोक्तस्य पश्चात् 'तस्माद्रजतमदक्षिण्यम श्रुजम्' इत्यादि- वाक्य नहिनिन्दान्यायेन हिरण्यस्तुतिपरत्वातद्वारा तत्प्राशस्त्यलक्षकमिति 1 कर्मतात्पर्यत्वेन. 2 भोजनादिष्ट. 8 कत्वं मुख्यार्थत्वं. 3 6