पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः र्थस्य । 'अनिर्ब्राह्मणः' इत्यादौ तु सादृश्यसम्बन्धेन अग्निजननसम्बन्धि- जननं भातीति भेद इति तयोः मतयोर्विनिगमकाभावः । यजमानकार्य- कारित्वादेरपि चक्षुर्माणत्वसम्भवात्सम्बन्धविधया आदित्यतेजस्वितासा- दृश्यं भाति । अग्निजननादिसादृश्यं तु प्रकारतयेत्यस्यापि सम्भवात् अभिजननस्थानजातत्वेन आदित्यवृत्तितावच्छेद कवैलक्षण्य विशिष्टतेज- स्वितात्वेन च भानादुभयत्रापि गुणघटकसादृश्यभाने मानाभावाञ्च । ‘अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः' इत्यादावजादीनां तत्रतत्र विहितत्वात् पशुकार्ये प्रतिषेधस्य पर्युदासस्य वा न सम्भवः । नापि 'अयज्ञिया वै माषा:' इत्यादाविव प्रतिनिधिनिषेधकत्वं, विध्ये- कवाक्यताभङ्गापत्तेः । अतः 'पुरस्त/त्प्रतीचीनमश्वस्योपदधाति पश्चा- त्प्राचीनमृषभस्य' इति विध्यपेक्षितगवाश्वस्तुतिपरत्वं समासगतपशुपदस्य गवाश्वगतप्राशस्त्यजातीय विशिष्टरूपः प्रशंसाघटितो गौणार्थ: । 'सृष्टी- रुपदधाति' इत्यत्र तु प्रत्यक्षविधिश्रवणाद्विषित्वम् । तत्र यद्यप्युपधान. मिष्टकानां चयनाङ्गत्वेनैव आक्षिप्येत, ' तथाप्याक्षेपप्रवृत्तेः पूर्वमनेन प्रत्यक्षविधिना विधीयते । तत्फलं प्रतीष्टकमुपधानस्य तत्र चयनसमान- कर्तृकत्वस्य च सिद्धिः । अन्यथा समुदितेष्टकोपधानं तस्य चयन भिन्न- कर्तृकत्वं च स्यात्, आर्थिकत्वात् । सति त्वस्मिन् इष्टकासंस्कारद्वारा उपधानस्य चयनाङ्गताबोधकविधौ प्रतिप्रधानं गुणावृत्तिन्यायादङ्गप्रधान- यारेक कर्तृकत्वाच उक्तफलयोस्सिद्धिः । सृष्टिपदस्य तु लिङ्गप्रकरण- प्राप्तसृष्ट्यसृष्टिमन्त्रसमूहरूपो गौणसृष्टिमन्त्रबाहुल्यरूपभूमघटितोऽर्थ इति भाष्यम् । उपधानमात्रे विधेये एकेन विधिना निर्वाहे 'प्राणभृत उपदधाति' इत्यायनेकोपधानविधीनां वैयर्थ्यापत्तेः । उपधानानुवादेन मन्त्रो मन्त्रविशिष्टोपधानं वा इष्टकासंस्कारार्थत्वन विधीयते । तत्रोपधान- विधिफलं पूर्वोक्तम् । मन्त्रविधिफलंतूपधाने मन्त्रनियमादिः । अन्यथा 1 आक्षिप्यते. 309