पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः तद्घटितवाक्यार्थधीद्वारा स्तुतिः । गौणत्वं च मुख्यार्थगतगुणघटितत्वम् । अस्ति च 'सिंहो देवदत्तः' इत्यादौ क्रूरादिरूपेऽथें । तत् ' खपुष्पं त्वत्सि- द्धान्तः' इत्यादौ च बाघितार्थकत्वरूपो गुणः सिद्धान्तरूपे वाक्ये खपुष्प- पदस्य स्वरूपात्मक मुख्यार्थगतो बोध्यः; सर्वेषां पदानां स्वरूपे निरूढ- लक्षणासत्त्वात् खपुष्पपदे च समुदायशक्तयभावेऽपि वाक्ये मीमांसकम लक्षणासम्भवात् । एवंच तत्र प्रकारान्तरप्रलापः परेषां हेयः । चन्द्रो मुख- मित्यादौ चन्द्रादिपदस्य चन्द्रसदृशार्थकत्वे गौणार्थकत्वं नोचेत् भाक्तस्त- द्व्यवहारः । तथाच यजमान कार्यसिद्धिहेतुर्यजमानपदस्य गौणार्थः, गौणार्थ- गतस्य मुख्यार्थसम्बन्धस्य गौणीवृत्तित्वात् गौणार्थभिन्नगतस्य मुख्यार्थ- सम्बन्धस्यैव लक्षणात्वात् गौणीलक्षणयोर्भेदो बोध्यः । न्यायसुधायां तु- अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥ इति वार्तिकोक्तौ शक्यघटितरूपेण बोधे लक्षणा, शक्याघटित- शक्यनिष्ठगुणवत्त्वरूपेण बोधे गौणीति तयोर्भेद उक्तः । 'अभिर्वै ब्राह्मणः' इत्यादावपि पूर्ववद्विधित्वे प्राप्ते अमयादिशब्दस्य जननघटि- तोमिजननस्थानजातरूपो गौणोऽर्थ; सृष्टिकाले ब्रह्मणो मुखादमिंब्राह्मण- योर्जननस्य श्रुत्युक्तत्वात् । एवं 'आदित्यो यूपः' इत्यादौ सारूप्यघटित आदित्यादिसहशो गौणोऽर्थः । आदित्यादिपदस्य यद्यपि सारूप्यं सादृश्यं ; तच्च तद्गततेजस्वित्वादिजातीयवत्त्वम्' । तथाच जननादि- घटित गुणोपि सारूप्यामिति न विशेषो भाति । तथापि सारूप्यस्य साह- श्यरूपत्वेन भेदघटितत्वं तत्सिद्धयादिस्तु तदघाटतत्वम् । अथवा सारूप्यस्थले भेदांशस्य अधिकस्या 'भानेपि जननायघटितगुणभान- मेब विशेषः । यत्तु चक्षुर्मासारूप्यमन्त्र भाति अन्यत्र तदन्यादति, यदपि अत्र प्रकारतया आदित्यतेजस्वितासहशतेजस्विता भाति मुख्या- - 1 तद्गततेजस्वित्वादिना सजातीयत्वम्. 2 जननाघटित. 3 अधिकरणस्या. 308 9