पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: 6 तत्सिद्धिपेटिकायां ' यजमान: प्रस्तरः' इत्यादेः गौणार्थता च नोच्येत । त्वयापि प्रत्यक्षाविरोधाय तत्त्वंपदयोर्लक्षणा नोच्येत । मन्त्राणामिष्टकामात्रप्रकाशकत्वात्तदुपधान इव तद्हणादिष्वपि प्राप्ति- स्स्यात् । अत उपधाने नियमो ग्रहणादिपारसङ्ख्या वा फलम् । मध्यमचितिसम्बन्धोऽपि तत्फलं 'यो वै काञ्चन ब्राह्मणवतीमिष्ट- कामभिजानीयात्तां मध्यमायां चितावुपदध्यात्' इत्यनेन प्रत्यक्ष- ब्राह्मणवतीनामिष्टकानां मध्यमचितिसम्बन्धविधानात् । अन्यथा तत्त- ञ्चित्यवान्तरप्रकरणपठितानां मन्त्राणां चयनमहाप्रकरणेन सर्वस्या- मन्त्यायां वा चितावेव निवेश: स्यात् । इष्टकानां प्रत्यक्षब्राह्मणवत्त्वं च प्रत्यक्षब्राह्मणगतपदावधेयमन्त्रकत्वम् | सृष्टिपदं हि सृष्टिप्रकाशकमन्त्र- करणकोपधानकर्माणि मुख्यमपि गौण्या वृत्त्या सृष्टिप्रकाशकप्रायसमूहा- न्तर्गत मन्त्र करण कोपधानकर्मेष्टका परमिति करणविनियुक्तलो कंटणामन्त्र केष्ट- काया अपि मध्यमचितिमात्र सम्बन्धापत्तेरिष्टकावाचीति पदविशेषणं वाच्यम् । सृष्टिप्रकाशकप्रायमन्त्राः सप्तदश, 'यत्सप्तदशेष्टका उप- दघाति' इत्यर्थवादानुसारात् । तत्र सृष्टिप्रकाशकाः चतुर्दश, तेषु ‘ ब्रह्मासृज्यत' इत्यादिरूपेण सृजधातुप्रयोगात् । त्रयोऽन्येऽतो भूम- घटितो गौणार्थ इति तु वार्तिकम् । 'प्राणभृत उपधाति' इत्यादौ तु प्राणभृत्पदाघटितमन्त्रापेक्षया स्वल्पेन प्राणभृत्पदघटितमन्त्रेण तत्पदाघटित- मन्त्रैश्च घटितो यस्समुदायः तदन्तर्गतमन्त्रकरणकोपधानकर्मेष्टका रूपोऽल्प- त्वरूपलिङ्गघटितो गोणार्थः । सर्वमन्यत्पूर्ववदिति प्रथमचतुर्थे 'तत्सिद्धि- जातिसारूप्यप्रशंसाभूमलिङ्गसमवाया इति गुणाश्रयाः' इत्यधिकरण स्थितम् । शब्दस्य प्रत्यक्षात्प्राबल्ये तत्सियादिघटित गौणार्थकथनं तत्रत्यं विरुद्धयेतेर्त्यः । तत्सिद्धिपेटिकेति । तत्सिद्धिंशब्दयुक्तं सूत्रं पेटिका, 310 - 4- अल्पत्वं च अनधिकत्वम् । तेन समसंख्याकस्थलस्यापि लिङ्गसमवायेन ग्रहः । सर्वमन्यत्. (इत्यधिकः कोशान्तरे पाठः)