पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छदः] प्रत्यक्षस्योपजीव्यत्वभङ्गः देरपि व्याप्यतापत्तेः । न च तत्र बिम्बपूर्वकत्वमेवानुमीयते, बिम्बव्यतिरेकप्रयुक्तव्यतिरेक प्रतियोगित्वरूपेणाप्रातिभासिकेन हे- तुनेति वाच्यम्; प्रयुक्तत्वं हि न तज्ञ्जनकत्वजन्यत्वादिरूपम् ; व्यतिरेकयोः परस्परं तदभावात् । किन्तु व्याप्यव्या पकभावः । तथाच बिम्बव्यतिरेकव्यापकव्यतिरेक प्रतियोगित्वं हेतुः । स चाकाशादौ व्यभिचार्येव । तस्मात्तत्र प्रतिबिम्बनैब बिम्बानु- मानम् ; अनुमेयस्य लिङ्गव्याप्तयादिसमानसत्ताकत्वनियमस्या- पास्तत्वात् । एतेन शब्देजप योग्यतासमानसत्ताकेन शब्दार्थन भवितव्यम् । योग्यतावाक्यार्थयोः समानसत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थयोः समानसत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थो योग्यताबाधेऽप्यबाधितः स्यादिति परास्तम् । वेदान्तवाक्ये अखण्डार्थरूपवाक्यार्थाबाधरूपायाः योग्यतायाः अप्यबाधाच्च । न च तथापि वेदान्ततद्ज्ञानप्रामाण्यमिथ्यात्वे कथं तात्त्विकाद्वैतसिद्धिरिति वाच्यम् ; शब्दतद्ज्ञान तात्त्विकत्वं हि न विषयतात्त्विकत्वे तन्त्रम् ; इदं रजतमित्यनाप्तवाक्यस्य तज्जन्य- भ्रमस्य च त्वन्मते तात्त्विकत्वेऽपि तद्विषयस्यातात्त्विकत्वात् । इति रीत्या क्षेमसाधारणजन्यत्वस्य प्रतिबिम्बाभावनिष्ठस्य प्रतिबिम्ब घाटतत्वेन अतात्त्विकत्वावश्यकत्वात् प्रतिबिम्बेतरभागस्य व्यर्थत्वाच्च । प्रतिबिम्बमेव बिम्बपूर्वकत्वेऽपि तादात्म्येन हेतुरित्याशयेन आह— तस्मादिति । अनुमेयमनुमितिविधेयतावच्छेदकं यदिच क्षेमसाधारणं जन्यत्वमखण्डं, तथापि प्रतिबिम्बा भावत्वरूपावच्छेदकमिथ्यात्वा तदपि मिथ्या, तस्य स्वसमानसत्ताकधर्मावच्छिन्नत्वनियमात् । अतएव शुक्ति- रूप्याभावनिष्ठाज्ञानाभावजन्यतापि मिथ्या | चैतन्यम्य तु घटाद्यवच्छि- न्नत्वं न स्वाभाविकमिति भावः तद्ज्ञानेति । तज्जन्यज्ञानेत्यर्थः । तन्त्रं 1 प्रतिबिम्ब 19* 291