पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम: जीवेशभेदस्य च तात्त्विकं सत्वं सिद्धयेत् - इति चेन्न; एतावता हि व्याप्तयादिसमानसत्ताकमनुमेयं सिद्धयत्वित्यापत्तेः फाल- तोऽर्थः । स चास्माकमिष्ट एव । न हि ब्रह्मभिन्नं क्वचिदत्य- न्ताबाध्यमस्ति न चायमनुमेयादे: व्याप्तयादिना समसत्ता- कत्वनियमोऽप्यस्ति; व्यभिचारिणापि लिङ्गेन साध्यवति पक्षे अनुमितिप्रमादर्शनात्, ध्वनिधर्महस्वत्वदर्घित्वादिविशिष्टत्वेन मिथ्याभूतैरपि र्नित्यैर्विभुभिर्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति मीमांसकैरभ्युपगमात्, गन्धप्रागभावावच्छिन्ने घंटे तात्विक व्याप्तयादिमतापि पृथिवीत्वेनातात्त्विकगन्धानुमितिदर्शनात्, प्र- तिबिम्बेन च बिम्बानुमितिदर्शनात् । न च तत्रापि बिम्बरहिता- वृत्तिरूपा व्याप्तिस्तात्त्विक्येवेति वाच्यम्; एवंसत्यवृत्तिगगना- विरुद्धधर्मवत्त्वेन जीवेशभेदस्य तात्त्विकं सत्त्वमित्यर्थः । वर्णानां इस्वत्वाद्यभावे हेतुः— र्नित्यैर्विभुभिरिति । आकाशादिवत् नित्यैः - देशकाला नवच्छिन्नै श्वेत्यर्थः । अकारस्य ह्रस्वत्वे सर्वदा सर्वदेशे तथोपलभ्येत, तस्यैकत्वात् । मिथ्याभूतैः बाधितत्वयोग्यैः । क्रियते प्रयुज्यते वर्णज्ञानत्वेन कारणत्वात् । अताविकेति । विशिष्टघटस्य केवलघटातिरेकात्तत्र गन्धोऽतात्त्विकः तस्य तदनतिरेके प्रागभावस्य विशेषणत्वात् तत्र कालिकसम्बन्धेन प्रकारीभूतो गन्धोऽतात्त्विकः यदिच गन्षांशे प्रागभाव एव विशेषणमुच्यते, तथापि गन्धे प्रागभावस्येव प्रागभावेऽपि गन्धसंसर्गस्यारोपो वाच्यः; परस्परा- ध्यासात् । तथा च संसृष्टरूपेणातात्त्विक' एव गन्ध इति भावः । ननु - प्रयुक्तत्वं क्षेमसाधारणजन्यता अन्यथा गगनाभावो बिम्बाभावादिति व्यवहियत इत्याशङ्कय यावतीषु स्वेतरव्यक्तिषु सतीषु यत्सत्त्वे उत्तर- क्षणे यत्सत्वं तावतीषु सतीष्वपि तदभावे उत्तरक्षणे अवश्यं तदभाव 1 तात्त्विक. 2 बिम्बाभाव इति. 290 ● ,