पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

292 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम: न च ज्ञानप्रामाण्यस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वं शुक्ति- रूप्यज्ञाने दृष्टमितिप्रकृतेऽपिज्ञानप्रामाण्यमिथ्यात्वे विषयस्यापि मिथ्यात्वं स्यादिति वाच्यम् ; प्रामाण्यमिथ्यात्वं हि न विषयमि- थ्यात्वे प्रयोजकम् ; भ्रमप्रमाबहिर्भूते निर्विकल्पके विषयबाधाभा- वात् । किन्नु तदभाववति तत्प्रकारकत्वादिरूपमप्रामाण्यमेव तथा । तच्च प्रकृते नास्त्येव । न चार्थाबाधरूपप्रामाण्यस्य मिथ्यात्वादर्थ- स्यापि मिथ्यात्वं स्यादिति वाच्यम् । अबाधितार्थविषयत्वं हि यत् प्रामाण्यं तस्य मिथ्यात्वम् । प्रकृते नार्थाबाधात् तदाधक- प्रमाणासम्भवात् तस्य सर्वबाधावधित्वात् । किन्तु तद्विषयत्व- रूपसम्बन्धबाधात्तथा । तथाचाबाधितार्थविषयत्वरूपप्रामाण्य- मिथ्यात्वेऽपि नार्थो मिथ्या | विशिष्टस्यैकांशमिथ्यात्वेऽप्यपरांश- सत्यत्वात्, यथा दण्डबाधनिबन्धनदण्डिपुरुषबाधेsपि पुरुषो न बाधित एवेति ॥ इति प्रत्यक्षस्योपजीव्यत्वभङ्गः, समव्यापकम् - प्रयोजकं व्याप्यम् । भ्रमप्रमाबहिर्भूत इति । तार्किका- दिरीत्या स्वमते त्वबाधितविषयकत्वं प्रमात्वं तत्रास्त्येव । नन्व- बाधितविषयकत्वरूपं प्रमात्वं यत्र मिथ्या तद्विषयकत्वं मिथ्यात्व- व्याप्यमिति शङ्कते – न चार्थेति । रूपेति । घटितेत्यर्थः । सर्व- बाधावाधत्वात् । सर्वबाधकप्रमाविषयत्वात् । तद्वाघे तदृशप्रमा अनु- पपन्नेति भावः । सत्यत्वादिति । त्वन्मतेऽपि सर्वदेशकालगताभावस्य सत्यत्वेऽपि तत्प्रतियोगिनः शुक्तिरूप्यादेः मिथ्यात्वादिति भावः । ननु ज्ञानविषयत्वविशिष्ट रूपेण ब्रह्म मिथ्येत्याशङ्कय, तथापि केवलरूपेण न मिथ्येति सदृष्टान्तमाह - यथेति । यत्तु – “अनुमेयं व्याप्तयादि- समसत्ताकमेव । अन्यथा त्वदनुमेयमिथ्यात्वमतात्त्विकं स्यात् । उक्त- 1 विशिष्टत्व. व्याप्तयादिविषयाबाधसमसत्ताकमेव. 2