परिच्छेदः] प्रत्यक्षस्योपजीव्यत्वभङ्गः 287 पीति । अथ यत्प्रामाण्यं स्वरूपसिद्धयर्थ अपवादनिरासार्थ च यत्प्रामाण्यमुमजीवति ; तत्तस्योपजीव्यम् । यथा स्मृतेरनुभवः न च रजतभ्रमस्तथेति चेत् तर्हि व्याप्तिधियोऽपि नानुमित्युपजी- व्यत्वं स्यात्, लिङ्गाभासादपि वमिति वकिप्रमादर्शनात् । ननु येन विना यस्योत्थानं नास्ति, तत्तस्योपजीव्यमित्येव वक्त- व्यम् । तथाच रजतभ्रमस्योपजीव्यत्वमस्त्येव, न तु प्राबल्यम् । न ह्युपजीव्यत्वमात्रेण प्राबल्यम्; किन्तु परीक्षिततया परीक्षा च सजातीयविजातीयसंवादविसंवादाभावरूपा । न च तौ रजतभ्रमे स्तः; प्रकृते चाक्षुषस्य परीक्षितत्वेन प्राबल्यम् - नोपजीव्यमित्यर्थः– यत्प्रामाण्यं । यद्धीनिष्ठप्रामाण्यम् - अपवादेति । स्वाभावधी रित्यर्थः । अबाधितविषयकानुभवेन अबाधित विषयिकैव स्मृति- जयते, अनुभूतमात्रवियकत्वादिति स्मृतेरबाधितविषयकत्वरूपं प्रामाण्य - मनुभवीयं तदधीनम् अतएव अबाधित विषयकधीजन्यस्मृतित्वरूपविशेष- दर्शनेनाबाधितविषयकत्वाभावधीनिरास इति स्मृतेः स्वजनकधीरुप- जी॰येत्याह — यथा स्मृतेरिति । दर्शनादिति । परामर्शादिप्रमात्वं विनाप्यनुमित्यादेः प्रमात्वस्वरूपस्य सिद्धेः । अतएव प्रमापरामर्शादि- जन्यत्वज्ञानस्य अनुमित्यादौ प्रमात्वाभावधीनिरासं प्रति सर्वत्रा - प्रयोजकत्वात् प्रमापरामर्शादिजन्यस्य गन्धप्रागभाववद्धटो गन्धवानित्य- नुमित्यादेः प्रमात्वाभावेन प्रमाजन्यानुमितित्वादेः प्रमात्वव्याभिचारित्वाच्या पवादानिरासकत्वात् प्रत्यक्षस्य परामर्शादेः नानुमित्यादावुक्तोपजीव्यतेति भावः - सजातीयेत्यादि । सजातीयः संवादः स्वसमानविषयकप्रमात्वेन निश्चितं ज्ञानान्तरं, विजातीयः संवादः स्वसमान विषयक प्रवृत्त्यादिरूपं कार्य, विरुद्धविषयकज्ञानं सजातीयविसंवादः, विरुद्धविषयक प्रवृत्त्यादि- 3 सर्वत्र. 1 त्वादिरूपं. 2 जन्यस्य ज्ञानस्य.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०७
दिखावट