पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • 286

तदुक्तम्- अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ । हेतुतत्वबाहितसत्त्वासत्त्वकथा वृथा ॥ [ प्रथमः इति किञ्चापेक्षितग्राहित्वमात्रेण चेदुपजीव्यता, तया च बाधकत्वम् । तदपेक्षितप्रतियोगिग्राहकत्वे 'इदं रजतमि' ति भ्रमस्य बाधोपजीव्यत्वात् कथं नेदं रजतमिति बाधबुद्धिस्त- द्विरुवा उदीयात् । अथ निषेध्यार्थसमर्पकतया प्रतियोगिज्ञान- त्वेन तस्योपजीव्यत्वेऽपि तत्प्रामाण्यं नोपजीव्यम् ; न हि प्रतियोगिप्रमात्वेनाभावज्ञानजनकता; गौरवात्, प्रतियोगिभ्रमा- दप्यभावज्ञानदर्शनाच्च । किन्तु तद्ज्ञानत्वेनैव; लाघवात् । अतस्तद्विरुद्धविषयकं ज्ञानमुदीयादेवेति ब्रूषे, तुल्यमिदं प्रकृतेऽपि पक्षज्ञानत्वीदना कारणता, न तु तत्प्रमात्वादिना- कारणत्वं मिथ्यात्वविरुद्धं; तत्राह – तदुक्तमिति । खण्डन इति शेष:- पूर्वसम्बन्धनियम इति । अनन्यथासिद्धत्वे सति कार्या- व्यवहितप्राक्कालावच्छेदेन कार्यव्यापकत्वे इत्यर्थः । अन्यथासिद्धव्यभि चारिणोर्वारणायोक्तरूपमवश्यं हेतुत्वं त्वयापि वाच्यम् । सत्त्वं तु न तत्र निवेश्यते, व्यर्थत्वादित्याह – तुल्य इत्यादि । प्रमात्वादिना- पीति । अप्रामाण्याशङ्कास्पदज्ञानं तु न निश्चय इति न तस्मात्कार्या- पत्तिः । अथवा अनावृतप्रमात्वेन हेतुत्वेऽपि न क्षतिः ; प्रातीतिकधी- साधारणस्य मिथ्यात्वेनाज्ञातविषयकत्वरूपप्र मात्वस्यैव तथात्वस्वीकारेण श्रुत्याद्युपजीव्यप्रत्यक्षेणावृतस्य' श्रुत्यादिजन्यज्ञानात्पूर्वमनपायात् । एवंच तत्प्रामाण्यं नोपजीव्यमित्यस्य पूर्ववाक्यस्य तदीयं भ्रमव्यावृत्तं प्रामाण्यं 1 प्रत्यक्षेनावृतस्य.