पारच्छेदः] प्रत्यक्षस्योपजीव्यत्वभङ्गः 285 जननार्थमेव तदपेक्षणादिति विशेषादिति चेन्न – उपजीव्या- विरोधात् । तथाहि यत्स्वरूपमुजीव्यते, तन्न बाध्यते । बाध्यते च तात्विकत्वाकारः । स च नोपजीव्यते, कारणत्वे तस्याप्रवेशात् । निवर्तकत्वं, तस्य साक्षिण्यभात्, अज्ञाननिवृत्तिद्वारकत्वेन प्रमायामेव भा (बा) नात् । नाप्यपरोक्षधीप्रतिबन्धकत्वम् तस्य प्रमायामपि सिद्धान्ते अनङ्गीकारात्, विपरीतनिश्चये सात अज्ञानाभावादेव भ्रमानुत्पादात् दोषाणां प्रतिबन्धकत्वादिना प्रमानुत्पादात्, परोक्षधीप्रतिबन्धकत्वरूपेण अनुमितेरपि प्रत्यक्षप्रमोपजीव्यसाक्षिसजातीयत्वसम्भवाच्च, साक्षिणो अम- प्रमासाधारणत्वेन तज्जातीयत्वेन प्राबल्यासम्भमाच्च । किञ्च उपजीव्य- जातीयत्वमात्रेण न प्राबल्यम्, यदा हि नोपजव्यत्वेन प्राबल्यं किन्तु परीक्षितत्वेनेति पर एव वक्ष्यति तदा परीक्षीतमुपजीव्यजातीयं प्रबलं वाच्यम् । न त्वपरीक्षितम् । तथाच परीक्षितप्रत्यक्षत्वेन प्राबल्ये न नः क्षतिः । अपि च उपजीव्यजातीयत्वेन न प्राबल्यं कापि क्लृप्तम्- अशुचित्वबोधकागमस्य आगमत्वेनैव प्राबल्यसम्भवादित्यादिदूषणानि सन्ति; तथापि स्फुटत्वात्तान्युपेक्ष्य वाचस्पत्यायुक्तरीत्या समाधत्ते- नोपजीव्येति । यत्स्वरूपमिति । व्यवहारिकप्रामाण्यमित्यर्थः- ताविकाकारः । त्रिकालाबाध्यविषयकत्वम् – अप्रवेशादिति । व्याव हारिकप्रमात्वेनैव प्रत्यक्षस्यागमानुमानजन्यधीकारणत्वं, न तु त्रिकाला- बाध्यविषयकत्वेन । व्यावहारिकप्रमात्वं चाद्वैतश्रुत्यनुमानजन्यज्ञानपूर्व कालाबाध्यविषयकत्वम् । तस्य चाद्वैत श्रुत्यनुमानजन्यज्ञानेन स्वकाले द्वैतमात्र बाधकेनापि नोपमर्द इति भावः । प्रमात्वेनापि न कारण- त्वमिति तु किश्चेत्यादिना वक्ष्यति । ननु पूर्वकालावच्छिन्नसत्त्वं - - 1 बोधकेनापि. , -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०५
दिखावट