पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

284 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः , जननम्, तीति सम एव उपजीव्योपजीवकभावः । अज्ञातकरणतया ज्ञान- जननार्थमनुमानानपेक्षणात् अनुमानागमादिना तु ज्ञान- ज्ञानजननेति । स्वकार्ययाबद्ज्ञानजननेत्यर्थः । तेन सविकल्पक- प्रत्यक्षस्यातीन्द्रियविशेषणज्ञानादिरूपानुमित्यादिसापेक्षत्वेऽपि न क्षतिः । विशेषणज्ञानत्वादिना हेतुत्वाभावमते तु यथाश्रुतमेव रम्यम् । यद्य- व्यतीन्द्रिय पक्षसाध्यहेतुकानुमितिविशेषस्यप्रत्यक्षानपक्षमेव शब्दानुमानादिनैव व्याप्तया दिधीसम्भवात् । न च किश्चिद्विषयक प्रत्यक्षत्वावच्छेदेनापि नानुमित्यादिसापेक्षता, विशेषणधीत्वादिना हेतु- त्वानङ्गीकात् । किञ्चिद्विषयकानुमितित्वाद्यवच्छेदन तु प्रत्यक्षसापे- क्षता, ऐन्द्रियविषयकानुमित्यादौ तत्सम्भवात् । तथाच किञ्चिद्विषयक- यज्जातीयप्रमासामान्यं यज्जातीयप्रमोपजीवकं तज्जातीयं तज्जातीयापेक्षया दुर्बलम्, अदृष्टाद्वारकोपजीवकत्वानिवेशात्, प्रत्यक्षस्य खजनकचक्षुरादि- जनका दृष्टप्रयोजकानुमानादिसापेक्षत्वेऽपि न क्षतिः - इति वाच्यम्; चक्षुर्घर्षणादाविष्टसाधनत्वानुमितिप्रयोज्य चक्षुषैव यस्य व्यक्तिविशेषस्य यच्चाक्षुषसामान्यं जातं तस्यानुमित्युपजीवकत्वात्, सविषयकान्यदद्वारी- कृत्य उपजीवकत्वनिवेशेऽपि बिशुद्धमातापितृजन्यत्वादिपरोक्षसापेक्षे ब्राह्मणत्वादिप्रत्यक्षे तादृशोपजीवकत्व सम्भवात् । न चानुमित्यादिसामान्ये प्रमात्वेन ज्ञायमानज्ञानस्य हेतुत्वात् प्रमात्वग्राहकसाक्षिण उपजीव्यत्वेन तज्जातीयत्वेन चाक्षुषादिकं प्रबलमिति वाच्यम्, आवरणविषयतान- वच्छेदकप्रामाण्य कचाक्षुषादिज्ञातस्य हेतुत्वेन साक्षिणोऽनुपजीव्यत्वात् । अस्तु वाऽनुमित्यादौ जनकतया तदीयाप्रामात्वशङ्कानिरासकतया तत्स्व- रूपवत्त्वम् । शङ्कानिरासकतया च साक्ष्युपजीव्यः; तावतापि तज्जा- तीयत्वेन प्राबल्यं दुर्वचम् । तज्जातीयत्वं हि न तद्वृत्तिप्रत्यक्षत्व जातिमत्त्वं ; तस्यास्मान् प्रत्यलकित्वेन पूर्वोक्तत्वात् । नाप्यपरोक्षश्रम- 1 प्रत्यक्षावच्छेदेनापि न. 3 प्रत्यक्षत्वादि. -- · .