पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षस्योपजीव्यत्वभङ्गः प्रत्यक्षस्योपजीव्यत्वभङ्गः ननु – उक्तन्यायैः प्रत्यक्षस्य जात्या प्राबल्याभावेऽपि उपजीव्यत्वेन प्राबल्यम्, उपजीव्यत्वं च अनुमानागमापेक्षित शेषार्थग्राहकतया । सा च क्वचित् साक्षात्, क्वचित्परम्परया- दृष्टं चापेक्षितैकदेशग्राहिणामप्युपजीव्यत्वम् । तद्विरुद्धग्रहणे तेन बाघच यथा घटविभुत्वानुमाने पक्षग्राहिणा अक्ष्णा, नरशिरश्शु- चित्वानुमाने साध्यग्राहकेणागमेन, मनोवैभवानुमाने ज्ञाना- समवाय्याधारत्वहेतुग्राहकेणानुमानेन । किमु वक्तव्यमपेक्षिता- शेषग्राहिणा स्वविरुद्धग्राहकस्य बाधः; चक्षुरादेव शब्दतजन्य- ज्ञानप्रामाण्याद्यग्रा हित्वेऽपि तनाहिश्रोत्रसाक्ष्यादिस जातीयत्वा- दुपजीव्यत्वम् । दृष्टं च नरशिरःकपालाशुचित्वबोधकागमस्य तच्छुचित्वानुमानोपजीव्यशुचित्वागमसजातीयत्वेन तदनुमा- नात् प्राबल्यम् । न चेन्द्रियमपि स्वज्ञानार्थमनुमानमुपजीव- बहूनां गुणीभूतानां उपमर्ददर्शनाच्च । अत एकादि दीक्षा पक्षे दक्षिणी- यादौ पर्वकालबाघः । द्वादशदीक्षापक्षे त्वावरोधान्न सः अमीषोमीयादौ तु सर्वथाऽपि स इति अङ्गस्य प्रधानस्य च गुणानां धर्माणां विरोधे प्रधानस्य धर्मा एव कार्या इति सूत्रार्थः । तथा च प्रधानत्वादद्वैत- श्रुतिरेवादरणयेिति भावः ॥ परिच्छेदः] तर्कैस्सारस्वत्तै रत्नैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तद्वान्त खण्डा नामक्षजातिबलं हतम् || इति प्रत्यक्षप्राबल्यभङ्गः - 1 एकाहादि. 283 असमवायीति । असमवायिकारणेत्यर्थः वक्तव्यमिति । बाघक्रियाविशेणत्वान्नपुंसकं वाधइत्यनन्तरमितिशब्दोऽध्याहर्तव्यः । -