अद्वैतसिद्धिव्याख्यायां गुरुचान्द्रकायां [प्रथमः त्यनिर्दोषत्वादनन्यपरत्वाच्च प्राबल्यमिति भूयोनुग्रहन्यायोपन्यासः परस्य निरालम्ब एव । यत्तु – “भूयोनुग्रह आवश्यकः, न ह्यल्पवैगुण्ये सम्भवति भूयोवैगुण्यं प्रयोगवचनं क्षमते, पूर्वावगतमपि कारणान्तरवशाद्वाध्यत एव" इत्यादि शास्त्रदीपिकादावुक्तम्, तदुक्तयुक्तेरप्रयोजकम् ; मुख्यो- पकारेण भूयसामुपकृतत्वाद्वैगुण्यभावात् । अतएव उपकारांश साधनाका- ङ्क्षाविच्छेदेन भूयोधर्मांशे अतिदेशाप्रवृत्तावपि क्षत्यभावात्, भूयस्त्वादे र्बाधकत्वासम्भवाच्च । यदपि प्रथमप्रवृत्तस्य लोकेबहुभिः पश्चात्प्रवृत्तै रुपमर्दात् भूयस्त्वं मुख्यत्वबाधकमिति नव्योक्तं तच्चिन्त्यत् ; दुर्बल- भूयस्त्वे तथा दर्शनाभावात् । समानबलभूयोभिर्बाध्यत्वं वाच्यम्; तदपि प्रमाणस्थले वक्तुमशक्यम् असञ्जातविरोधित्वेन मुख्यस्य- बलवत्त्वात्समानबलत्त्वाभावात् सञ्जातविरोधित्वेन बाध्यत्वस्य भूय- स्स्वप्यविशिष्टत्वेन भूयसामषि समानबलवत्वाभावात् । न लेकेनो- पक्रमस्थेन प्रमाणेन प्रमाणानामुपसंहारस्थानां बहूनां बाषः । तस्माद- मुख्यस्यैव समानबलभूयो बाध्यत्वं वाच्यम् । तत्र तूदाहरणं न यथोक्तं प्रत्यक्षादेर्न्यूनबलत्वात् प्रकृतानुपयोगाच्च । तस्मादुक्तन्यायस्य अत्यन्तशिथिलत्वाद्वाक्यमात्रं त्वया दृष्टान्तीकृतम् । तदपि विषममित्या- शयेन ' दृष्टान्ते' इत्याद्युक्तम् । 'अपिचानन्यपरत्वेन श्रुतेः प्राबल्यात् ' इत्यनेन प्रत्यक्षादेरदैतश्रुतिशेषत्वाद्दौर्बल्यम् । उक्तं हि वार्तिकादावपि - ‘वात्स्यायनादीनां ब्रह्मण्येव समन्वयः' इति । उक्तं च — 'मुख्यंवे' त्युक्ताधिकरणोत्तरं 'अङ्गगुणविरोधे च तादर्थ्यात्, इत्यषिकरणे मुख्यानां दक्षिणीयाद्यज्ञानां प्रधानस्य जघन्यस्य च सोमयागस्य, य इष्ट्या' इत्यादिविहितपर्व काले अनुष्ठान विरोषे प्रधानस्यैव तत्काले अनुष्ठानं, अङ्गनां प्रधानसाद्गुण्यार्थत्वेन तद्विरोधे अङ्गसाढण्यस्यार्किञ्चि- त्करत्वात्, लोके प्रधानेन पश्चात्प्रवृत्तेन एकेनापि प्रथमं प्रवृत्तानां , - · 1 पूर्व. 282 , ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०२
दिखावट