पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

283 अद्वैत सिद्धिव्याख्यायां गुरुचन्द्रिकायां अस्ति हि 'सन् घटः' इति विशेषदर्शनजन्यज्ञानानन्तरं घटार्थक्रियाप्रत्यक्षे क्लप्तदूरादिदोषाभावाच । एवमेव जीवे शाभेदश्रुतौ निषेध्यापक भेदश्रुतिः, साक्षिप्रत्यक्षं चादोषत्वात् परीक्षितमिति तदबाध्यम् । एवमेव च दोषाभावादि- ज्ञानरूपपरीक्षायामपि अनाश्वासे वेदे पौरुषेयत्वाभावज्ञाने त्वदुक्तानुमाने च योग्यानुपलब्ध्यादिना हेत्वाभासादिराहि- त्यज्ञाने ब्रह्ममीमांसायां प्रत्यधिकरणं सिद्धान्त्यभिप्रेतार्थे उपक्रमाद्यानुगुण्यज्ञाने च अनाश्वासः स्यादिति प्रमाणतदाभास- व्यवस्था न स्यात् - इति; परीक्षा हि प्रवृत्तिसंवादविसंवादाभाव- दोषाभावादिरूपा । तया च स्वसमानदेशकालीनविषयाबा- ध्यत्वं प्रामाण्यस्य व्यवस्थाप्यते धूमेन स्वसमानदेशकालीन कार्यं विजातीयविसंवादः, ज्ञानान्तरं घठार्थक्रियेति पाठः । दूष्यन्याया- मृतग्रन्थे तथा सत्त्वात् । ज्ञानानन्तरं घयार्थक्रियेति पाठेऽपि ज्ञानरूप- सजातयिसंवादानन्तरं विजातीयसंवादरूपजलाहरणादिरूपार्थक्रियेत्यर्थः । प्रमात्वेन निश्चितत्वलाभाय ज्ञाने जन्यान्तं विशेषणं विसंवादाभावेऽपि वर्तते । श्रुत्यादेरन्यविषयत्वादिकल्पनादित्यभिमानः । चन्द्रप्रादेशिक- त्वादौ सजातीयविजातीयविसंवादव्यापको दूरत्वादिदोषः, तद्भावादुक्त- प्रत्यक्षे उक्तविसंवादाभाव इत्याशयेनाह – प्रत्यक्षे कप्तेति । ननु दूरत्वाद्यागन्तुकदोषाभावेऽपि अविद्यारागपापविशेषरूपदोषयोगादुक्तप्रत्य- क्षादीनां कथं परीक्षितत्वं ? प्रसिद्धं हि श्रुत्यादौ तेषां दोषत्वं – “न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव नीहारेण प्रावृताः, अज्ञाने- नावृतं ज्ञानं तेन मुह्यन्ति इतिनुकामयमानः आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण, विवदिषन्ति यज्ञेन, 'ज्ञानमुत्पद्यते पुंसां क्षयात्पा- पस्य कर्मणः, जनैः स्वकर्मस्तिमितात्मनिश्चयैः” इत्यादौ, तत्राह - एवमेव च दोषेति । कालीनेति । प्रामाण्यस्येति च । विषयाबाध्यत्वे - , [प्रथमः