270 अद्वैत सिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः त्वात् । न चादृष्टमित्यादिकं तत्पुरुष इति वाच्यम्; 'नान्तः प्रज्ञम् ' इत्यादिबहुव्रीहिप्रायपाठात्, अबहुव्रीहित्यस्य अविनिगम्यत्वादिति ध्येयम् । यत्तु ' उत्सर्गतः स्वतः प्रामाण्यस्य प्रत्यक्षेऽपि निश्चयावश्कय- त्वात् सामान्यविशेषेत्याद्ययुक्तम्' इति तत्तुच्छम् ; औत्सर्गिकत्वादेव दोषसत्त्वे अपवादात् । अन्यथा औत्सर्गिकत्वहानिरिति स्ववचनार्थाबो- धस्य स्फुटत्वाच्च ज्योतिष्टोमे श्रूयते त्सरा वा एषा यज्ञस्य तस्माद्य- त्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्ति इत्यादौ विहितमुपांशुत्वममी- षोमीयापेक्षया पूर्वस्य ज्योतिष्टोमभागस्याङ्गमुत तद्गतपदार्थस्येति संशये, तत्पदार्थ मुद्दिश्योपांशुत्वं विधीयते । अन्यथा सिद्धान्तेऽप्यमीषोमीयादि- पदार्थानां मिथोऽनन्वयेन प्रत्येकोद्देशे वाक्यमेदापत्तेः । तत्पदं च पूर्वभागमेव परामृशति, न तु तद्गतपदार्थान् तेषामप्रक्रान्तत्वात् । प्राचीनशब्दस्य लक्षणया क्वचित्तादृशपदार्थबोधकत्वेऽपि आकृत्यधि- करणन्यायेन पूर्वभागवाचकत्वात् यद्यपि पूर्वरूपेण पदार्थबोधकत्वमपि तस्य सम्भवति ; तथाप्येकवचनान्तत्वेन नात्र नानापदार्थबोधकत्वम् । एकपदार्थबोधेन च यत्किञ्चिदित्यसङ्गतम् । अतस्तस्य समूहतात्पर्य - ग्राहकत्वेन सार्थक्यात् एकसमूहाभिप्रायेण एकवचनप्रयोगात् पूर्वसमूह- बोधकत्वं तस्यावश्यकम् । तादृशे च समूहे भागितया ज्योतिष्टोम- रूपप्रकृतयज्ञस्यान्वयः तदेकदेशपूर्वत्वे च निरूपकतयाऽमीषोमीयस्य अन्वयः । तथाच तादृशसमूहरूपभागस्यैव प्रक्रान्तस्य तत्पदेनोद्देश्यता | यद्यपि यज्ञस्येति पदं तस्मादित्यनेन व्यवहितम् ; तथापि विधिवाक्यार्थे तदर्थान्वयः । अन्यथा अर्थवादकत्रशक्यार्थ एव तदन्वये तस्य प्रवृत्तिवि- शेष करत्वाभावापत्तेः । अस्तु वा तस्य त्सरायामेवान्वयः । तथापि ज्योति- ष्टोमस्य प्रकृतत्वात् तदीयभागलाभः; सिद्धान्तेऽपि पदार्थ विशेषणतया- तदीयत्वस्यावश्यकत्वात् अन्यथा अतिप्रसङ्गात् । तथाच तादृशभाग- - 6 ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९०
दिखावट