पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबलखण्ड नम् - कृति मुख्यविशेष्यक बोधस्य तन्मते स्वीकारेण हिंसाकृतित्वसामान्य- रूपेण वैधान्यहिंसाकृतौ भावनाप्रयोज्याभावप्रतियोगित्वबोधस्य लक्षणां विनैव सम्भवात् । अर्थाद्वैतश्रुत्यादिरूपसामान्यबोधकप्रमाणस्य साबका- शत्वं लक्षणयाऽपीत्यत्राविशेषप्रमाणस्य सामान्यप्रमाणगतलक्षणारूपोपम- र्दप्रयोजकत्वमदृष्टमपि प्रकृते कल्प्यत इति चेन्न; सावकाशत्वं हि विशेषप्रमाणविषयान्यत्र स्वारसिकेप्रवृत्तिः, न तु लक्षणादिरूपोपमर्द - प्रयुक्ता । वक्ष्यतेचाचार्यैः—— श्रुतेरपि निरवकाशत्वमनन्यपरत्वात्' इति । न श्रुत्यादे: सावकाशत्वेन प्रत्यक्षबाध्यतासम्भवः । किञ्च नेह नानास्ति किञ्चन, नात्र काचन भिदा, इदं सर्वं यदयमात्मा' इत्यादौ- किमादि सर्वनाम्ना विशेषरूपेण बोधकत्वात् || 6 न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति । न भूमिरापो मम वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च | 'अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छा यमत मोडतेजस्कम्, अशब्द मस्पर्शमरूपमव्यम् तथाऽरसं नित्यमगन्धवञ्च यत्' इत्यादिश्रुतौ विशेष्य- वाचकपदयोगात् पृथिवी मिथ्येत्यादिविशेषानुमानरी तेरुक्तत्वाच श्रुत्यादी- नामपि विशेषरूपेण मिथ्यात्वविषयकत्वाद्विशेषरूपेण सत्यताविषयक प्रत्यक्षबाध्यतायां न प्रत्याशा | न चोक्तश्रुतौ पुण्यादौ आत्मनि सम्बन्धनिषेधात् । न पुण्यादिमिथ्यात्वबोधकत्वमिति वाच्यम्; "एवं विदित्वा परमात्मरूपम् ” इत्युत्तरवाक्येन आत्मानमुद्दिश्य पुण्याभावादि- विधानस्य स्वरसतः नतीतेः ममेति षष्ठयाः सप्तम्यर्थकत्वात् । न च प्रत्यक्षायोग्यभूम्यादेरेव निषेध इति वाच्यम्; लक्षणापत्तेः । अदृष्टमव्य- बहार्यमनिन्द्रियमविषयम्' इति नृसिमतापनीयश्रुतौ “अशरीरं शरीरेषु, अपाणिपादोऽहमचिन्स्यशक्तिः, पश्याम्यचक्षुम्स शृणोम्यकण, अप्राणो ह्यमना: " इत्यादिश्रुतिषु प्रत्यक्षविषयत्वादिरूपदृष्टत्वादिनिषेधस्य स्फुट- 1 " " 1 269 आत्मसम्बन्धनिषेधात्.