पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबलखण्डनम् स्वरूपे साधनानर्थक्यात् तज्जन्यापूर्वे च मानाभावात् भागिज्योतिष्टोम- जन्यपरमापूर्वविशिष्टतया भागोद्देशे नोपांशुत्वं विधीयत इति परमापूर्व- प्रयुक्तं तत् । तथाच ज्योतिष्टोमविकारे अभीषोमीयपूर्वभागान्तर्गते स्वप्रा - कृत पदार्थेष्वपितदूह इति प्राप्ते, यत्किञ्चिच्छब्दस्य बहुप्वेव प्रयोगात् स्वार्थपरत्वे सम्भवति समूहतार्पयग्राहकत्वेन तत्सार्थक्यस्य युक्तत्वात् यत्प्राचीनमित्यनेन एकवचनान्तेनैव समूहलाभे किश्चित्पदेवयथर्धा- पत्तेश्च प्रथमोक्तत्वेन बलवतस्तस्यानुरोधेन चरमोक्तप्राचीनपदाश्रितस्यै- कवचनस्य बहुत्वलक्षणासम्भवात् प्राचीनपदस्य पूर्वत्वरूपेण पदार्थ - बोधकत्वात् तेनेत्यनेन तत्तत्पदार्थजन्यावान्तरापूर्वसाधनोद्देशेनैवोपांशुत्वं विधीयते । एवंच योग्यत्वान्मन्त्र मात्रं द्वारं, समूहस्योद्देशत्वे तु घटकपदार्थाङ्गमश्रो द्वार मिति गौरवम् अतएव एकवचनानुरोधेन भाग- स्यैव स्वघटकपदार्थजन्यापूर्वसम्बन्धित्वेनोद्देश्यता आस्तामित्यपि परा- स्तम् । किश्चित्पदानर्थक्यादेरुक्तत्वाच्च । यत्तु “ यज्ञत्सरयोरन्वयात् उपांशुत्वं परमापूर्वप्रयुक्तं, त्सर छद्मगतौ ' इति स्मृतेः । यदु- ' पांशुत्वानुष्ठानमेषा यज्ञस्य त्सरा यज्ञसाध्यपरमापूर्वलाभाय छद्मगतिः, यथा पक्ष्यादिलाभाय शनैः छद्मगतिरित्यर्थ पर्यवसानात् " इति तन्न ; यज्ञसम्बन्धिपदार्थजन्यापूर्वलाभायेत्यर्थस्य न्यायानुसारिणः सम्भवात् । तथाचोक्तेष्वप्राकृतपदार्थेषु यूपावटास्तरणबहिर्धर्मवदुपांशुत्वस्य नोह इति नवमप्रथमे ‘देशलब्धमुपांशुत्वं, तेषां स्यात् श्रुतिनिर्देशात् तस्य च तत्र भावात्' इति सूत्रेण सिद्धान्तितम् । देशलब्धमनीषोमीयात् पूर्वसम्बन्धित योपात्तमुपांशुत्वं तेषां पदार्थानां लिङ्गं स्यात्, यत्कि- ञ्चिच्छ्रतिनिर्देशात् । तत्र तादृशनिर्देशे सति पश्चात् तस्य 'प्राचीनम् ' इत्यस्य भावात् उत्पन्नत्वात् तत्र तेषु पदार्थेषु तस्य उपांशुत्वस्य मन्त्रद्वाराभावात् । उपकारकतया सत्त्वात् इति सूत्रार्थः । तथाच 66 1 ष्वप्राकृत. 2 द्वार. 271