पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 249 तत्त्वेनावेदयत्ता- पारमार्थिकत्वा- अतात्त्विकप्रपञ्चे यदि तात्त्विकत्वमप्यध्यक्षेण न गृह्यते कथं तर्हि तस्यातत्वावेदकत्वम् ? न हि तदेव त्विकं नाम । दृश्यते च सार्वलौकिकप्रपञ्चे नुभव इति वाच्यम्; न ह्यस्माकं तत्त्वावेदकत्वं तद्वति तत्प्र- कारकत्वम्, तद्भिन्नत्वमतत्त्वावेदकत्वम् । किन्तु अबाधितवि- षयत्वं तत्वावेदकत्वम् । बाधितविषयत्वं च अतत्त्वावेदकत्वम् । अबाधितविषयत्वं च श्रौते ब्रह्मज्ञान एव, तद्भिन्त्रज्ञाने तात्प- र्यवद्वेदत्वेनैव तत्वावबोधकत्वात् । तथाचं प्रपञ्चप्रत्यक्षस्य तात्त्विकत्वागोचरत्वेऽपि अतच्याबोधकत्वं सङ्गच्छते । सार्वलौ- किकपारमार्थिकत्वप्रसिद्धिस्तुजलगतपिपासोपशमनसामर्थ्यप्रसि - द्विवत् परोक्षतय़ाप्युपपन्ना नापरोक्षत्वपर्यवसायिनी ॥ तस्मादध्यक्षयोग्यस्य सत्त्वस्येहानिरुक्तितः | नाध्यक्षबाधो मिथ्यात्वलिङ्गस्यात्रोपपद्यते || 6 त्वस्य सिद्धत्वात् ' उत्तरवेद्यामनिश्चीयते' इत्यनेन सामिप्रयोग एवा- मधुत्तरवेद्योः समुच्चयस्य सङ्कर्षोक्तत्वात् । अत उक्तवाक्यमप्रमाणमप्रति- षेधभागित्वादिति 'अभागिप्रतिषेधात्' इति सूत्रे आशङ्कय शुद्ध- पृथिवीचयनप्रतिषेधो नित्यानुवादो न पृथिव्यां चेतव्यः' इति न नहि निन्दान्यायेन ' हिरण्यं निधाय चेतव्यम्' इति विहितहिरण्य- स्तुत्यर्थः । तदुपपादकौ च इतरौ नित्यानुवादौ, यथा अन्तरिक्षे दिवि वा चयनमप्रसिद्धं तथा हिरण्यरहितायां शुद्धपृथिव्यामिति सिद्धान्तितं ' अन्त्ययोर्यथोक्तम्' इति सूत्रे । तात्पर्येति । महा- तात्पर्येत्यर्थः । अवान्तरतात्पर्याविषयस्य यागादिगतेष्टसाधनत्वादेः बाधि- तत्वादिति भावः । पिपासेति । दुःखविशेषरूपपिपासानिवृत्तिसामर्थ्यस्य जलगतस्य व्यापकताविशेषरूपत्वात् शक्तिविशेषरूपत्वाद्वा नापरोक्षतेति 6