पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

250 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां न लौकिकं न सामान्यजन्यं साक्ष्यात्मकं च न । प्रत्यक्षं बाधते लिङ्गमिथ्यात्वस्यानुमापकम् || इति प्रत्यक्षयोग्यसत्यत्वानिरुक्तया प्रत्यक्षवाधोद्धारः. [प्रथमः प्रत्यक्षबलखण्डनम्. किंचेदं रूप्यमित्यत्र इदमितिवत् 'सन् घटः' इत्य- त्रापि सदित्यधिष्ठानभूतं ब्रह्मैव भासते । न च चाक्षुषादि- ज्ञाने रूपादिहनिस्य ब्रह्मणः कथं स्फुरणमिति वाच्यम्; रूपा- दिहीनस्यापि कालादिन्यायेन स्फुरणस्य प्रागेव उपपादित- त्वात् । नन्वेवं 'नीलो घटः, मिथ्या रूप्यं असन्नाङ्गम् भावः । लौकिकं । लौकिकसन्निकर्षजन्यम् । सामान्येति । अलौ- किकसन्निकर्षमात्रेत्यर्थः । सामान्यज्ञानप्रत्यासत्योः सन्निकर्षत्वास्वीका- रात् योगजधर्मस्य प्रत्यक्षजनकत्वस्वीकारपक्षेऽप्यतीन्द्रियप्रत्यक्षजनकत्वा- स्वीकारात् सत्यत्वप्रत्यक्षाजनकत्वमिति भावः || सारस्वतस्तर्करनैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तखण्डनां खण्डिता सत्त्वयोग्यता || इति प्रत्यक्षबाधोद्धारः. , इदमितीति । यथेदंरजतयोः कल्पितं तादात्म्यं भाति, तथा सद्रूपमिथ्यारूपयोः तच्च नोक्तमिथ्यात्वविरोधीति लौकिकप्रत्यक्षमपि न दृश्यत्वादिबाधकरूप मिति भावः । घठादेरारोपितत्वात् सिद्धि- कालेऽपि कार्यमात्रे ब्रह्मणो निमित्तत्वस्येवोपादानत्वस्यापि सिद्धि-