248 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकाया [प्रथमः अग्रसक्त प्रतिषेधकता स्यादिति वाच्यम्; तासां चक्षुरादिप्र- सक्तद्वैतनिषेधपरत्वात् । पारमार्थिकत्वेन द्वैतनिषेधपरत्वेपि नाप्रसक्तनिषेधकत्वम् ; परोक्षप्रसक्तेस्सम्भवात्, 'नान्तरिक्षेऽ- निश्चेतव्यः' इत्यादिवदप्रसक्तप्रतिषेधस्याप्युपपत्तेश्च । न च b योगिताकनिषेधबोधकेत्यर्थ: । अप्रसक्तप्रतिषेधकतेति । येन रूपेण यत् न ज्ञातं तेन तन्निषेधकतेत्यर्थः । चक्षुरित्यादि । दृश्यत्वाकाश- त्वादिना चक्षुरादिज्ञातं द्वैतं, तेन तन्निषेधपरत्वादित्यर्थः । नान्तरिक्ष – इत्यादि । यत्र प्रतिषेधे तात्पर्य, तत्र प्रतियोगिप्राप्तयादिकं विना तत्कल्पनवैयर्थ्यात् तदावश्यकता, यत्र तु नान्तरिक्षे ' इत्यादौ न तत्र तात्पर्य, किन्तु मानान्तरसिद्धतदनुवादद्वारा विधेयस्तुतिपरत्वं, तत्र न तदावश्यकता । तथाच सत्यत्वविशिष्टद्वैत में विनापि 'नेहनाना' इत्यादिश्रुतीनां मिथ्यात्वानुमानादिसिद्धस्य ब्रह्मगतस्य सत्यत्वेन द्वेताभावस्य अनुवादद्वारा विधेयब्रह्मस्तुतिपरत्वमिति भावः । प्रथमाध्याये द्वितीयपादे अर्थवादाधिकरणे 'न पृथिव्याम मिश्चेतव्यो नान्तरिक्षे न दिवि ' इत्यन्तरिक्षे दिवि च चयनं न प्रतिषिध्यते, अप्राप्तत्वात् । नापि पर्युदस्यते, अदिव्यनन्तरिक्षे च नित्यप्राप्तत्वात् । एवं पृथिव्यां न तत्प्रतिषेधपर्युदासौ चयनविरोधात् । नापि ग्रहणा- ग्रहणवत् पाक्षिकत्वसिद्धये प्रतिषेध इति वाच्यम् ; 'पशुकामश्चिन्वीत इत्यादि पुरुषार्थचयनस्य ' अथातोऽग्निमग्निष्टोमेन यजेत' इत्यादि ऋत्वर्थचयनस्य च पाक्षिकत्वस्य च सिद्धत्वात् । 'यद्यमिं चेष्यमाणा भवन्ति' इत्यस्मिन् सत्रगतसमारोपकालादिगुणविधायकवाक्ये सिद्धव- त्पाक्षिकानुवादादिना ‘अग्नि: सोमाङ्गं वेच्छताम्' इति कात्यायनोक्तयाच- निरग्निसोत्तरेवेदिकप्रयोगस्य दशमोक्तत्वात् कत्वर्थचयनस्यापि पाक्षिक- , 6 1 निषेधकेत्यर्थः 2 यत् ज्ञातं. 14 ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६८
दिखावट