पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 247 न च यत् भवतां घटादिबुद्धेः प्रातिभासिकबुद्धितो बैल- क्षण्यं विषयस्य व्यावहारिकसत्त्वसाधकं तदेवेह मम विषयस्य पारमार्थिकसत्त्वसाधकमस्त्विति वाच्यम् ; प्रातिभासिकबुद्धि- वैलक्षण्यं हि घटादिबुद्धेः सप्रकारकज्ञानाबाध्यविषयत्वादिरू- पम् । तन्त्र पारमार्थिकसत्त्वं घटादेः साधयितुं शक्तम् | देहा- त्मैक्यज्ञाने ब्रह्मज्ञानाव्यवहित भ्रमे च व्यभिचारात् । ननु 'घट- स्सन्, रूप्यं मिथ्येति' प्रतीत्योरविशेषे कथं 'घटोमिथ्या, रूप्यमिथ्यात्वं न मिथ्या' इति विशेषः १ न च तदपि मिथ्यैव, रूप्यताचिकत्वापत्तेरिति चेन्न; मिथ्यात्वमिथ्या- त्वेऽपि यथा न रूप्यस्य तात्विकत्वं तथोपपत्तरुक्तत्वात् । न च पारमार्थिकसत्त्वस्य प्रत्यक्षागोचरत्वे तन्निषेधश्रुतीनां १ अन्यथा वन्यज्ञ व्यवहारकालाबाध्यप्रातीतिकबुद्धेः संवा- दिप्रवृत्तिप्रयोजक प्रमात्वाभावापत्तेरिति चेत् तथापि व्यवहारकालीन- बाधाभावघटितस्य साक्ष्यग्राह्यत्वेनापिशब्दसूचितम स्वारस्यं सिद्धमेव । तदेवं त्रिकालबाधाभावघटितप्रमात्वग्राहकत्वेनाविद्यमानग्राहकत्वात्रिका- लनिषेधाप्रतियोगित्वमपि साक्षी गृह्णात्विति दृश्यत्वादे: साक्षिबाध्यत्व- शङ्कां निरस्य व्यावहारिकप्रमायाः प्रसङ्गात् तदीयव्यावहारिकविषय- कत्वसाधकलिङ्गेन दृश्यत्वादिकं बाधितमिति प्रसङ्गाच्छकते । न चेति । प्रातिभासिकेति । ब्रह्माविषयकज्ञानबाध्येत्यर्थः विषयकत्वादीत्यादिना ब्रह्मधीबाध्यत्वविषयकत्वादिः । तेन सोऽयमिति शाब्दनिष्प्रका- रकधीबाध्यभेदविषयकस्योक्तवैलक्षण्याभावेऽपि न क्षतिः । अविशेषे । आगन्तुकदोषजन्यत्वविशेषस्याभावे | तन्निषेधेति । तदवच्छिन्नप्रति- ' संवादिप्रयोजक -