पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

246 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः , स चेत्थम्, व्यवहारकालाबाध्यविषयकत्वमपि न साक्षिग्राह्यम्, यदेव हि तार्किकादिमतरीत्या साक्षात्क्रयते तदेव साक्षिग्राद्यं वाच्यम्; अन्यथा पिशाचाभावादेरपि तत्त्वापत्तेः । व्यवहारकालाबाध्यत्वं च तन्मतरीत्या घटादिकं इदानीं यदि व्यवहारकाले बाध्येत तर्हि तथोप- लभ्येतेत्यापादनासम्भवेन योग्यानुपलम्भाभावात् वर्तमानव्यवहारकाले अन्यपुरुषस्य बाधसम्भवेऽपि तत्पुरुषे बाधाभावेन तत्पुरुषस्य बाघानुप- लब्धिसम्भवात् । अथ – वस्तुगत्या यो व्यवहारकालः तत्तज्ज्ञानाधि- करणीभूतः तद्घटितं स्वाधिकरण कालावच्छिन्नं यद्वाधाविषयत्वं तद्वि- षयकत्वरूपं स्वाधिकरणकालावच्छिन्नसामानाधिकरण्यसम्बन्धेन स्ववि- षयबाघस्य योऽभावस्तद्विशिष्टत्वं वा प्रमात्वम् | स्वपदं प्रमाव्यक्ति- परम् । पुरुषभेदेन प्रपञ्चभेदादेक पुरुषीयधीविषये पुरुषान्तरीयबाधा- भावादाद्यं, पुंभेदेन प्रपञ्चाभेदेऽपि द्वितीयं साक्षिणा सुग्रहम् यदी- दानीमिदं घटादि बाध्येत तदा तथोपपलभ्येत, यद्युक्तसम्बन्धेनात्र ज्ञाने बाध: स्यात् तदा तथोपलभ्येते त्यापादनसम्भवात्, योग्यानुप- लम्भसत्त्वादिति चेन्न ; तत्तज्ज्ञाने स्वानधिकरणव्यवहारकालबाध्य- विषयकत्वग्रहे प्रवृत्त्याद्यनु त्पादन स्वाधिकरणकालीनोक्तबाधाभावघटि- तस्य प्रमात्वरूपत्वाभावात् स्वसमानाधिकरणस्वान्यून सत्ताकाभावप्र- तियोगित्वस्य स्वाधिष्ठानस्य वा ज्ञानं घटादेर्बाध इति तत्त्वेनेदानीं ज्ञानसम्भवाच्च । अथ वस्तुगत्या व्यवहारकालीनं यद्वाषायोग्यत्वं तद्वि- षयकत्वमेव । तदुक्तायोग्यत्वं च उक्त प्रतियोगित्वविशिष्टरूपेणाज्ञानवि- षयतावच्छेदकत्वं अज्ञानविशेषणतया च उक्त प्रतियोगित्वविशिष्टं साक्षि- प्रायमेव । स्मृतेरप्युक्तप्रमास्वेन प्रवर्तकत्वम् । शुक्तिरूप्यादिधीराप बाघपूर्व तथेति सापि प्रवर्तिका संशयवारणाय निश्चयत्वमपि निवेश्यम् । अज्ञान' विषयकनिश्चयत्वं प्रमात्वमिति अद्वैतरत्नायुक्तेरत्रैव तात्पर्यम् । , 1 म्वस्यानधिकरण. 2 प्रवृत्त्यनु. 3 अज्ञात.