पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 245 1 तस्य विद्यमानमात्रग्राहित्वादिति चोक्तम् । ननु तर्हि देहात्मै- क्यज्ञान मुष्णं जलमित्यादि ज्ञानं च प्रमास्यात्, व्यवहार- दशायां विषयाबाधादिति चेन; आब्रह्मज्ञानमबाधितत्वेन तेषामापि घटादिज्ञानसमानयोगक्षेमत्वात् । ननु कालान्तर- स्थमपि यत् बाधकं तदपि किं यत्कालावच्छेदेन अनेन स्वार्थो गृहीतः तत्कालावच्छेदेनैव तनिषेधति उतान्यकालावच्छेदेन; आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये अनित्यत्वादिकमेवेति- चेन; अबाध्यत्वरूपप्रामाण्यस्य प्रपञ्चज्ञाने मया अनङ्गीकारात् । यत्कालावच्छेदेनैवानेन स्वार्थो गृहीतः तत्कालावच्छेदेनैव तनिषेधाभ्युपगमात् । यच्च प्रामाण्यं मया अभ्युपेयते तत् व्यवहारदशायां विपरीतप्रमारूपबाधकस्य अनुपपन्नत्वादस्त्येव । व्यवहारकालबाध्य ‘ शुक्तिरूप्येत्यर्थः – क्षेमत्वादिति । तथा च व्य- बहारकालाबाध्यप्रातीतिकमात्रस्येयं गतिरिति तत्र साक्षिणा उक्त- प्रमाण्य ग्रहात् संवादिन्येव प्रवृत्तिः, व्यवहारकाला बाध्यविषय कत्वस्त्येव प्रवृत्तिसंवदित्वादिति भावः । न च स्मृतिवारणायाज्ञानविषयतावच्छे- दकाबाध्यविषयकत्वं प्रमात्वं वाच्यामिति प्रातीतिकस्य तादृशाबाध्यत्वा- भावान्नतद्धीः प्रमेति वाच्यम्; तान्त्रिकव्यवहार्यप्रमात्वस्य तथात्वेऽपि प्रवृत्तिप्रयोजके अवच्छेदकान्तानिवेशात् । स्मृतेरप्यनुमित्यादिवत् प्रवर्तक 3 'त्वात् – अनित्यत्वादित्यादिना | निषेधस्याव्याप्यवृत्तित्व- मेवकारात् न तु मिथ्यात्वधी रूपो बाध, मिथ्यात्वस्य प्रतिपन्नदेश- कालावच्छिन्ननिषेधघटितत्वादित्यर्थः - अबाध्यत्वेति । त्रिकालाबा- ध्यत्वेत्यर्थ । अस्त्येवेति । व्यवहारकालावच्छिन्नात्यन्ताभावप्रति- योगित्वेऽपि तद्धीविषयत्वाभावो व्यवहारकाले अस्त्येवेत्यर्थः । अत्र तद्रूपप्राणाण्यस्य साक्षिणा ग्रहणेऽपीत्यपिशब्देन अस्वरसः सूचितः । 2 - 1 कालाबाध्य 3 मित्यः दिनवर्तक. प्रत्यक्षबाधोद्धारः 2 प्रामाण्या