पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिद्रव्यां गुरुचन्द्रिकायां [प्रथमः साक्षिज्ञानस्य भ्रमप्रमासाधारणत्वेन प्रमाणाबाधकत्वाच्च । ननु ज्ञानप्रामाण्यं गृढन् साक्षी घटादिगतमबाध्यत्वं गृह्णात्येव, न हि विषयाबाधमनन्तभाव्य प्रामाण्यग्रहणं नामेति चेन्न; व्यवहारकालाबाध्यत्वमात्रेण प्रवृत्तावपि संवादोपपत्तेः, तद्रूप- गतप्रामाण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावात् । न हि घटादिज्ञानस्य संवादिप्रवृत्तिजनकतावच्छेदकं प्रामाण्यं त्रिका- लाबाध्यविषयकत्वम्, किन्तु शुक्तिरूप्यादिज्ञानव्यावृत्तं व्यव- हारकालाबाध्य विषयकसकलज्ञानवृत्ति व्यवहारकालाबाध्यविष- यकत्वमेव । तच्च न भाविकालबाधविरोधीत्युक्तम्, भाविकाल- बाधतदभावौ च न मानं विना साक्षिणा गृहीतुं शक्यौ, 244 3 तस्य तन्निश्चयत्वामेति न ामेथ्यात्वानुमितिबाधकत्वम् ' । शुक्तिरूप्या- देरप्युक्तान्यथानुपपत्त्यादिमानेनैव त्रिकालादिगर्भ मिथ्यात्वनिश्चय इति भावः भ्रमप्रमासाधारणेति । सुखाद्यंशे प्रमात्वस्येव शुक्तिरूप्याद्यंशे भ्रमत्वस्यापि गृह्यमाणत्वेन त्रिकालनिषेधाप्रतियोगित्वांशेऽपि भ्रमत्व- शङ्कास्पदत्वेनेत्यर्थः–व्यवहारेत्यादि । व्यवहारकालाबाध विषयक- त्वमात्रेण प्रवृत्तिप्रयोजकाविसवादोपपत्तेरित्यर्थः । यादृशं प्रवृत्ताववि- संवादित्वं तादृशं तत्प्रयोजकज्ञाने अपक्ष्यते औचित्यत्त्, भावि- कालाबाध्यत्वादिनिवेशे गौरवाच्चेत्याशयेनाह – न हीति । अवच्छे- दकमिति । आवरण विषयतानवच्छेदक 'प्रमात्वेन जनकतेत्यर्थः । तेन दोषविशेषात्प्रमाया अप्रात्य श्रनविषयी भूनाया अप्रवर्तकत्वपि न दोषः । तत्रप्रमात्वविशिष्ट मानावच्छेदेन साक्षिण आवरणविषयत्वात् । यत् प्रमात्वेन निश्चीयमानं ज्ञानं - 5 6 प्रवृत्ति सामान्य कारणीभूतं तत्सहकृताया एव प्रमायाः संवादिप्रवृत्त्युपघायकत्वात् - शुक्तिरूप्येति । - 1 साधकत्वं. 2 त्रिकालादिगत " कालाबाभ्य. 4 तावच्छेदक S प्रयत्न. 6 निर्णयमानं