पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 243 ननु प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे शुक्तिरूप्यादेः प्रति- पत्नोपाधौ नैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वं कथं प्रत्यक्षं स्यात् ? अथ तत्र रजतत्वविरोधिशुक्तित्वे साक्षात्कृते तद- न्यथानुपपत्त्या च रजतत्वाभावे निश्चिते मिथ्यैव रजतमभादिति ताह निषेधप्रत्ययः स्वसम्बन्ध सर्वभासकेन साक्षिणैवोपपन्नः, तर्हि साक्षात् स्वविषयस्य गगनादेर्भाविकालनिषेधाप्रतियोगित्वं सकलकालग्राहिणासाक्षिणा गृह्यतामिति – चेन्न साक्षिणो वि- द्यमानावभासकत्वेनाविद्यमानभाविबाधाभावभासकत्वानुपपत्तेः, 1 अथ षयकत्वेनाप्युपपत्तेः गुरुनिष्ठतादृशावच्छेदकत्वा कल्पकत्वात् । विषयताविशेषादेवि तद्घटादेरपि स्वरूपतोऽवच्छेदकत्वसम्भवात् न गौरवमिति वाच्यम्, तथापि तस्य स्वरूपतः प्रतियोग्यंशे विशेष- णत्वासम्भवेन केनचिद्रूपेण तथाभूतस्यावच्छेदकत्वं वाच्यमित्युपस्थिति- गौरवं दुर्वारमेव । अन्यथा तद्रूपादेः स्वसमनियतकारणतावच्छेदकत्वा- पत्त्या अनन्त ' कारणत्वाद्यापत्तेः । विषयताविशेषादिकं यद्यपि प्रत्यक्षे ज्ञानविशेषिततयैव भाति; तथाप्यनुमित्यादौ स्वरूपेणैवविशेषणमिति तदेवावच्छेदकं युक्तम्। किञ्च भेदगर्भमप्युक्तसत्त्वं न चक्षुरादियोग्यं, मूर्तसामान्यवद्भेदवदुक्तरीत्या योग्यानुपलम्भाभावादिति दिक् ॥ 3 साक्षात्स्वविषयस्येति । ज्ञाततया अज्ञाततया वा स्वविषय - स्येत्यर्थ: । साक्षिण इति । प्रमाणवृत्त्यनुपहितसाक्षिण इत्यथः । विद्यमानावभासकत्वेनेपि । विद्यमानान्येनार्थेन विद्यमानकाला- वच्छेदेन आध्यासिकतादत्म्याभावेनेत्यर्थः भाविबाधाभावभासक- त्वेति । भाविकालनिषेधाप्रतियोगित्वनिश्चयत्वेत्यर्थः । तथाचाज्ञाततया भाविबाधाभावस्य साक्षिणा व्यवहारो यद्यपि सम्भवति; तथापि न 1 न च. 2 4 विषय. कल्यापत्तयाद्यनन्त. 3 स्वं. 5 5 विद्यमानार्थे. 16*