पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः 233 2 , व्यवहारः । परे तु विषयत्वविषयित्वे भिन्ने एवार्थज्ञानयोः प्रतियो- गित्वानुयोगित्वे इव भावाभावयरित्याहुः । इत्थंच स्वभावेति स्वीय भावार्थकम् ' । प्रकाशस्येति त्विच्छानिरासायेत्युत्तरप्रन्थानुरोधेन वर्ण- यन्ति । वस्तुतस्तु इच्छादिष्वपि ज्ञान इव विषयत्वम् । अथ तेषु जनकज्ञानौपाधिकं विषयत्वमिति चेन्न; जनकज्ञानस्य तद्विषयत्वस्य वा तद्विषयतात्वे अतिप्रसङ्गात् ईश्वरेच्छादौ तदसम्भवाच्च । अथ यद्विषयकत्वेन ज्ञानस्येच्छादिजनकत्वं तद्विषयकज्ञानमेव इच्छादे- स्तद्विषयत्वमिति चेत्तर्हि इच्छादेः सर्वविषयकत्वं न स्यात्, सर्व- विषयकत्वेन इच्छाद्यनुत्पादकत्वात् । स्यान्च सुखादीच्छाया अपि दुःखाभाबादिविषयकत्वं ज्ञानोपरमे इच्छादीनां च सविषयकत्वं न स्यात् । तस्माल्लाघवाद्वाषकाभावाच्च ज्ञान इवेच्छादिष्वपि ज्ञानाघटि- तैव विषयता " इति । तत्र व्याख्यानम् - तत्तत्प्रकारेति । यदवच्छिन्नं ज्ञानं विषयता तद्विशेषणं यस्य विषयता तद्विशेष्यमिति भावः । अतीतेति । अतीतादिविशेषणकं ज्ञानमिदानीं अतीतादिविषयकमि- त्यादिव्यवहारानुपपत्तिरिति भावः । नन्वेकत्र ज्ञानं घटसम्बद्धत्वं पट- सम्बद्धत्वं च अस्ति, तत्राद्ये घटत्वम् अन्त्ये पटत्वं चावच्छेदकं, अमे तु पटसम्बद्धत्वे घटत्वमवच्छेदकमिति भ्रमत्वमेव, सम्बन्धत्वावच्छे- दकत्वे चातिरिक्ते अनतिरिक्ते चेति न विषयताबाधः; इत्थंच यत्स-

म्बद्धत्वं ज्ञाने, स विशेष्यः, योऽवच्छेदकः स प्रकार इत्युच्यते तत्राह- किञ्चेति । स्वरूपेण स्वात्मकेन सम्बन्धेन आत्मनि स्वस्मिन् कथमिति । न चाननुगततत्तद्विषयता सम्बन्धेन विषयविशिष्टज्ञानत्वेनैव हेतुतेति वाच्यम् ; अननुगतसम्बन्धैः कारणत्वे सत्यपि परामर्शादौ तत्सम्बन्धेन हेतुत्वं न क्ऌप्तमित्यनुमित्याधनुत्पत्तिसम्भवे पक्षतादिहेतुत्वानापत्त्या 1 र्षकत्वम्. 2 सवियकत्वं. 3 विषयतायाः. 4 गतत्वाद्विषयता.