पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्विव्याख्यायां गुरुचन्द्रिकाया [ प्रथमः - अव्यवस्थापत्तेः, 'अननुगतसम्बन्धघटितव्यापकत्वस्य दुर्वचत्वाच्च । अत- एव सम्बन्धतावच्छेदकस्य संयोगत्वादेरपि अभावभाने संसर्गमर्यादया भानमङ्गीकुर्वन्ति । अतएव सर्वसम्बन्धेन भूतलादौ द्रव्यं नास्ति सम्बन्धसामान्येन तु द्रव्यं तत्राास्तीति सिद्धान्त | प्रकारत्वादय इत्या. दिना संसर्गत्व विशेष्यत्वनिर्विकल्पक विषयत्व संग्रहः । निर्विकल्पक विष यत्वं विशेष्यत्वमिति केचित् । सर्वसाधारणं तु विषयितात्वादिकमर्था- न्तरं सम्बन्धतावच्छेद कमुपेयम् । अतएव तद्विषयकज्ञानत्वादिनाऽनुग- तरूपेण हेतुत्वादिति भावः । स्वरूपसम्बन्धलोपे अनवस्थेत्याह-अथेति । यावत्प्रतीतिः तावत्सम्बन्धः, तदभावे तु न स इति नानवस्थेत्या- शयेनाह - स्यादिति । जनकतावच्छेदकेति। न च विषयनिष्ठा सा प्रतियोगितासम्बन्धेन ज्ञाननिष्ठजनकतायामवच्छेदिकाऽस्त्विति वाच्यम्; कारणांशे साक्षात्प्रकारीभूय अवच्छेदकस्य वृत्तिनियामक सम्बन्धेनैव सत्वोपगमात् । कारणताया अवच्छेदकत्वेन कल्प्यस्य तत्सामानाधि- करण्यसम्भवे वैयधिकरण्याकल्पनादिति भावः | विषयनिष्ठप्रत्यासत्त्या हेतुतद्वद्भावे वाच्ये विषयनिष्ठोपि सम्बन्धस्सिध्यति, अन्यथा स्वविषय- ताप्रतियोगित्वेन तदुक्तगौरवादित्याशयेनाह – परेवति । तथाप्यर्थ- ज्ञानोभयनिष्ठ एक एव सम्बन्धः कल्प्यते न तूभयमित्यस्वरसेना हुरिति । तदेतत्सव्याख्यानं शिरोमणिवाक्यम् | तथाच प्रमेयमित्यादिज्ञाने घटत्वप्रकारताकत्वाभावेन उक्तसंशयाविरोघित्वं, प्रमेयवदिति ज्ञाने च घटत्वप्रकारता नानवच्छिन्नेत्यनवच्छिन्ना या घटत्वप्रकारता तच्छा- लित्वेन विरोधित्वे न दोष इति चेन्न; तस्यापि स्वरूपसम्बन्धेत्यादि- अन्थेनव प्रत्याख्यानात् ज्ञानार्थस्वरूपयोः सम्बन्धविशेषरूपस्य अतिरिक्तविषयतारूपस्य अभ्युपगमे चानिर्वनीयत्वं विचारासहत्व- मापद्यत इति तदर्थसम्भवात् । तथाहि – भासमानवैशिष्ट्यप्रतियोगि- - 2 1 अनुगताने. 2 नदिष. 234 "