पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

232 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः , -- 1 बिरुद्ध इति मिथ्यात्वं वाच्यमित्यनिर्वाच्यवादापत्तिः । अथ ताह- शविशिष्टरूपमत्यन्तभिन्नं तर्हि भाषान्तरेणातिरिक्त विषयैव स्वीकृता । नन्वस्त्वतिरिक्तैव विषयता । उक्तं च शिरोमणिना – " यदि ज्ञानं विषयता, तर्हि घटपटाविति धीर्घटत्वपटत्वावच्छिन्नघटीयपटीयात्मक- विषयताशालित्वात् भ्रमस्स्यात् ; अथ यथा समवायोऽनवच्छिन्न एव सत्ताया रूपसंयोगाद्यवाच्छन्नश्च रूप संयोगादेः सम्बन्धः, तथा निर्वि- कल्पकं ज्ञानं अनवच्छिन्नमेव । सविकल्पकं तु तत्तत्प्रकारावच्छिन्नम् । विषयतासमूहालम्बने घटत्वाद्यवच्छिन्नं ज्ञानं घटादेर्विषयता भ्रमे घट- त्वाधवच्छिन्नं पटादेरिति चेतर्हि घटज्ञानं ज्ञातो घट इत्येव स्यात्, न तु घटत्वेन घटज्ञानं, घटत्वेन घटो ज्ञात इति, घटत्वस्य सम्बन्ध- कोटौ प्रवेशात् । न हि भवति नीलत्वेन नीलः पटः, नीलत्वेन पटः नीलिमेति । तत्तत्प्रकारावाच्छन्नं च यदि धर्मान्तरं तदा भाषान्तरे - णातिरिक्तविषयताङ्गीकारः । अथ तदुभयमेव, तदातीतानागतविशेष- णके अप्रतीकारः । किंच घटज्ञानं यदि घटादिभि: स्वरूपेण सम्बन्द्ध- मिति तेषु व्यवहारमाधत्ते, तदा आत्मनि स्वाभावेषु कालादावप्या- दध्यात्, तैरपि समं तस्य स्वरूपेण सम्बद्धत्वात् । अपिच यदि विषयत्वं तत्त्वं वा नातिरिच्यते, तदा कथं तद्विषय केच्छादिसामान्ये तद्विषयकज्ञानानां कारणत्वं? अननुगतत्वात् । तस्मादतिरिक्तैव विष- यता, तद्विशेषास्तु प्रकारत्वादयः । एवं विषयतात्वादिकमपि । एतेन प्रतियोगित्वादधिकरणत्वादयोपि व्याख्याताः । अथैव सम्बन्धानन्त्ये अनवस्था स्यात्, स्यादेव, यदि क्वचिदपि स्वरूपसम्बन्धेन न प्रती- कार: ; अन्यथा अनुपपत्तेः दुर्वारत्वात् सा ज्ञाननिष्ठा * ज्ञानस्य नियत- कार्यजनकतावच्छेदकतया कल्पनीया, तत्तत्प्रतियोगितया चार्थे विषय- 4 1 एवं. ज्ञाननिष्ठा. 2 च्छिन्नस्वरूप. 3 च्छिन्नविषयतासमूहालम्बनेन. 4 साक्षात्