पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद ] 225 गोत्वत्वरूपत्वात् । एतेन प्रागभावप्रतीतिरपि व्याख्याता । किंचानागतज्ञानस्य अपेक्षितत्वे अनुमानादेव तद्भविष्यति । तथाच न्यायकुसुमाञ्जलौ- शङ्का चेदनुमाऽस्त्येव न चेच्छका ततस्तराम् । प्रत्यक्षबाधोद्धारः - च्छिन्नं लाघवात् । तथाच तत्तद्गोव्यक्तीनामेकैकमात्रस्य उपलक्षण- विघयैवावच्छेदकत्वं तादृशसम्बन्धेन तद्व्यक्तिविशिष्टगोत्वस्य गवान्तरे सत्त्वाभावेन तत्र गोत्वं नास्तीति प्रत्ययापत्त्या विशेषणविधया तस्या- बच्छेदकत्वासम्भवात् । गोत्वं तु नावच्छेदकं, अत्यन्ताभेदे सिद्धान्ते सम्बन्धाभावेन प्रतियोग्यसम्बद्धत्वात् । गौरित्या कारक यत्किञ्चित्ज्ञाने- च्छाप्रकारत्वादिकं तु ज्ञानविषययोर्भेदे विषयत्वभेदानङ्गीकारे अति- प्रसक्तम् । अतो गोव्यक्तेरेवेत्युक्तम् – गोत्वत्वेति । गोत्वांशे प्रकारेत्यर्थः । तथाच गोमात्रस्य गोत्वनिष्ठप्रतियोगितायां वस्तुगत्या अवच्छेदकत्वेऽपि कस्यचिद्गोरेव गोत्वांशे प्रकारत्वेन गोत्वाभाव- प्रतियोगितावच्छेदकतया भानात् तद्विषयीभूतस्यैव कस्यचिद्गोर्वा गोत्वेन ज्ञानमेव ' तदभावधीहेतुः न तु गोमात्रस्येति भावः । एतेनेति । प्रतियोगिज्ञानस्याभावबुद्धौ विशेषणतावच्छेदकप्रकारकज्ञान विधया हेतु- त्वात् प्रतियोग्यंशे विशेषणतावच्छेदकधर्मप्रकारकज्ञानत्वेन हेतुत्वेने- त्यर्थ: । घटत्वादिना विद्यमानघटज्ञानादेव भाविघटविशेषितप्राग- भावधी: शब्दादिना योग्यताबलाद्विद्यमानकार्ये शक्तिमहात् भावि- कार्यस्य लिङा प्राभाकरमते बोधवदिति भावः । शङ्केत्यादि । काला- न्तरे देशान्तरे च वर्तमानधूमादिव्याभिचारीत्यस्य अतीन्द्रियपिशाचा युपाधित्वस्य वा शङ्का पूर्वोक्ता चेदस्ति तदा देशकालान्तरयोः भावि- भूतयोः अननुभूतयोर्ज्ञानाय अनुमानमस्त्येव । जल्पेन प्रतिवादिनं निरस्य 1 गोर्वा ज्ञानमेव. 2 शब्दादीनां 3 पिशाचत्वा शङ्कते. 2 A.S.V. 15