पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां भावादित्यभ्युपगमात् । अन्येषां मते ताहतेजोविरहज्ञानस्यापे- क्षितत्वेपि प्रतियोगितावच्छेदकप्रकारकज्ञानादेव तत्सम्भवेन तदर्थ सकलप्रतियोगिज्ञानजनिकायाः सामान्यप्रत्यासत्तेरनुप- योगात् । न च गोत्वाभावज्ञानं गोत्वत्वप्रकारकज्ञानजन्यम्, तच्च गवेतरावृत्तित्वे सति सकलगोटीत्तत्वरूपं सामान्यप्रत्यास- त्तिमन्तरेण न शक्यमवगन्तामति साम्प्रतम्; यत्किञ्चिनोव्यक्तेरेव तमसः पुनर्मूलकारणादेव विद्युदादेरिव झटिति जन्म' इति । तम उत्पन्नं नष्टमिति प्रतीतेस्तमउत्पत्त्यादिविषयकत्वं स्वीकृत्येदम् । लाघवाच्छन्द उत्पन्नो नष्ट इत्यादिबुद्धेरिवोक्तबुद्धेरभिव्यक्तयुत्पत्ति- नाशविषयकत्वे च साक्षादेव आलोकाभावस्य व्यञ्जकत्वम् । न चैव- मालोके सत्यपि दिवा उलूकादेस्तमश्चाक्षुषं न स्यादिति वाच्यम्; दोषविशेषाणामपि विकल्पेन व्यञ्जकत्वादालोकाभावभ्रम एव दोष- विशेषाणामावश्यकहेतुत्वेपि प्रातीतिकस्याप्यालोकाभावस्य व्यञ्जक- त्वाद्वा । अन्येषां उक्ततेजोविरहस्तम इति वादिनां वैशेषिकादीनां, द्रव्यं तमस्तव्यज्ञ्जक आलोकाभाव इति वादिनां पूर्वमीमांसकानां, च । प्रतियोगितावच्छेदकेति । प्रौढप्रकाशत्वेत्यर्थः । तच्च उद्भूता- नभिभूतरूपक महातेजस्त्वं प्रभात्वरूपा जातिर्वेत्यन्यत् | गोव्यक्तरिति । समवेतत्वसम्बन्धेन गोत्व रूपेणावच्छिन्नं प्रतियोगितावच्छेदकत्वं गो- व्यक्तीनां सर्वासां प्रत्येकपर्याप्तत्वाद्यत्किञ्चिद्गोव्यक्तिनिष्ठतया भातीति भावः । विशेषणविधया गोः प्रतियोगितावच्छेदकत्वात् गोसमवे- तद्रव्यत्वाद्याश्रयेऽपि गोत्वं नास्तीति धीः प्रमा । वस्तुतस्तु तत्त- द्रोव्यक्तीनां गोत्वनिष्ठाषेयतया अवच्छेदकत्वमनवच्छिन्नम्, न तु गोत्वादिना एकैकगोव्यक्तिमात्रनिष्ठावच्छेदकत्वस्य तदतिप्रसक्त गोत्वाद्य वच्छिन्नत्वा सम्भवात् तत्तद्व्यक्तित्वेनापि तदव 2 अवच्छिन्नम्, 1 गो. 2 तदनव: 224 [प्रथमः