पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां इत्यत्र व्याघातावधिराशङ्का तर्कश्शङ्कावधिर्मतः ॥ शङ्कोषपादकमनागतज्ञानमनुमानादेवेत्युक्तम् । अनु- मानं च ' वर्तमानपाकः पाकपूर्वकालीनः पाकत्वादतीतपाकवत्' इत्यादि । न च चरमपार्क व्यभिचार: ; साध्यसिद्धुयपजी- वकस्य व्यभिचारज्ञानस्यादोषत्वात्, अन्यथा सिद्धयसिद्धि- व्याघातात् । किंच शब्दादपि सकलधूमपाकादिगोचरज्ञान- सम्भवः । न च शङ्कादिपूर्व शब्दस्योपस्थिति नियमाभाव इति वाच्यम्; कदाचिदेव शब्दादनुभूतस्य तदानीं 226 [ प्रथमः त्वबुभुत्सुं प्रत्याह – तर्कश्शङ्कावधिरिति । शङ्काया अवधिः सामग्रीविघटकः । ननु तर्कस्यापि व्याप्तिधीमूलकत्वादनवस्था ; तत्राह - व्याघातेति । आशङ्का उक्तानवस्था यदि सर्वत्र शङ्कसे, तदा धूमाद्यर्थं वह्यादौ तवैव प्रवृत्तिः न स्यादिति तर्करूपेण व्याघातेन वारणीयेत्यर्थः । उक्तमिति । कालान्तरे कदाचिद्व्यभिचरिष्यतीति कालं भाविनमाकल्प्याशङ्कयेत; तदाकलनं च नानुमानमवधीरयेतेत्यने- नोक्तमित्यर्थः । भाविनमित्युपलक्षणम् | पाकपूर्वकालीनः । पाककालीन- ध्वंसप्रतियोगी | सिद्ध्यसिद्धीति | भावि यदि ज्ञातं, तनुमानेनेति किं पाश्चात्येन व्यभिचारज्ञानेन, यदि न ज्ञातं तर्हि, तत्र व्यभिचारो ज्ञातु- मशक्य इत्यर्थः । पाककालीनध्वंसप्रतियोगिपाकत्वादि तु असिद्धत्वा - चरमपाकसिद्ध्यधीनसार्थकताकविशेषणयुक्तत्वाञ्च न हेतूकृतम् । न च जातायामनुमितौ व्यभिचारिलिङ्गषीजन्यत्वेन भ्रमत्वमनुमेयमिति वाच्यम् ; व्यभिचारलिङ्गधीजन्यानुमितेरपि प्रमात्वात् । शब्दादनुभूतस्येति । विद्यमानशक्तयादि'ज्ञानादविद्यमान व्यक्तिबोधः प्राभाकरमत इव समान- प्रकारकत्वेन शक्तयादिधीशाब्दबोधयोः कार्यकारणभावादिति भावः । - 1 पाकन्वादिनि हेत्वसिद्रत्वा. 2 शक्यादि. 1