परिच्छेदः] प्रत्यक्षबाधोद्धारः 219 - निश्चयेऽपि पृथवीत्वादिना तत्र संशयसिषाधयिषे भवत एव' इति । निश्चितेप्यर्थे प्रामाण्यसंशयाहितसंशयवत् धूमत्वं वह्निव्यभिचारिवृत्ति न वेति संशयादपि तादृश- संशयोपपत्तेश्च । एतेन वायु: रूपवान्न वेति संशयोपि व्याख्यातः । ननु सिद्धे नेच्छा किन्तु असिद्धे, सा च स्वसमानविषयज्ञानजन्या । तच्च ज्ञानं न सामान्य प्रत्यासत्तिं बिना । न च सिद्धगोचरसुखत्वप्रकारकज्ञानादेव अज्ञाते सुखे भवतीच्छा, समानप्रकारकत्वमात्रस्य नियामकत्वादिति वाच्यम्; रजतत्वेन प्रकारेण रजते अनुभूयमाने घटादौ रजतत्व प्रकारकेच्छाप्रसङ्गात् । न च प्रकाराश्रयत्वमपि निया- मकम्, रजतभ्रमाच्छुक्ताविच्छानुदयप्रसङ्गात् । तथाच समान- प्रकारकत्वे सति समानविषयकत्वं तन्त्रम् । अतएवाख्याति पक्षे रजतस्मरणस्यैव शुक्तौ प्रवर्तकत्वमित्यपास्तमिति चेन्न; यतो रजतभ्रमाच्छुक्ताविच्छा नास्त्येव, किन्त्वनिर्वचनीये रजत इत्यनिर्वचनीयख्यातौ वक्ष्यते । प्रकाराश्रयत्वं नियामकं संशयादिति । धूमवृत्तित्वघटितधूमत्वत्वरूपेण धूमत्वस्य विशेष्यतया व्यभिचाराभावरूपव्याप्तेः उपस्थितेश्च व्यभिचारतदभावसहचरितधूमत्व- वैशिष्ट्यस्य धूमे अवगाहनात् साधारणधर्मवद्धर्मिधीविधया धूमधार्मिक- व्यभिचारसंशयहेतुरयं संशयः । यद्यपि व्यभिचारतदभावसहचरित- धर्मान्तरज्ञानमपि तथा सम्भवति; तथाप्यस्य धूमत्वव्याभिचारि- वृत्तित्वावगाहित्वात् व्यभिचारिणि धूमे व्याप्तिप्रकारकत्वरूपाप्रामाण्य- ज्ञापकत्वेन व्याप्तिनिश्चयाभिभावकत्वादादर इति ध्येयम् । वस्तुतस्तु उक्तसंशयस्य दोषविशेषतया अनुभवबलात् तदजन्यव्यभिचारज्ञान एव व्याप्तिनिश्चयो विरोधीति भावः । अप्रामाण्यसंशयोत्थानद्वारा उक्त- संशयस्य व्यातिनिश्चयाभिभावकत्वे तु न दृष्टान्तसामञ्जस्यम् ।
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३९
दिखावट