अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः वदअख्यातिवादी परमेवं विभीषणीयः । तथाच प्रका- राश्रयत्वस्य नियामकत्वादन्यथाख्यातिपक्षोपि निरस्त एव । न च तर्हि भ्रमत्वं न स्यात् इदं रजतमिति भ्रमत्वा- भिमतज्ञानस्य व्यधिकरणप्रकारत्वानभ्युपगमादिति वाच्यम्; बाधितविषयत्वेन हि भ्रमत्वं, न तु व्याधिकरण प्रकारत्वने, विभीषणीय इति । वस्तुतस्तन्मते संवादिप्रवृत्तावेव प्रकाराश्रयत्वं नियामकं, प्रवृत्तिमात्रे तु उपस्थितयोः इष्टतावच्छेदकपुरोवर्तिनोर- संसर्गाग्रह इति न दोष इति भावः । प्रकाराश्रयत्वस्येति । एकरजतज्ञानादन्यरजते प्रवृत्त्यापत्तिस्तु ज्ञानरजतानामेकत्रेव अन्यत्रापि प्रवृत्तिः स्यादित्यापत्त्या तुल्या, असाधारण कारण कल्पनात्तदभावात् तदना- पत्तिरपि तुल्येति भावः । व्यधिकरणप्रकारत्वेति । स्वनिरूपित विशेष्यतावद्वृत्तिभिन्नवृत्तिप्रकारताकत्वेत्यर्थः । स्वप्रकारता रजतादिस्वप्र- कारता, स्वनिरूपितविशेष्यतावति शुक्तयादौ वर्तमानादिदंत्वादेः भिन्नरजतादौ वर्तमाना बोध्या । बाधितेति । स्वसमानाधिकरणाभावप्रति- योगीत्यर्थः । विषयाबाधप्रयोज्यत्वात्स्वाधिकरणत्वेन प्रतीतेः विषया- भावज्ञानज्ञप्यत्वात् । किंच यत्र येन सम्बन्धेनासम्बन्धि यत् तन्निष्ठ- विशेष्यतानिरूपिततत्सम्बन्धावच्छिन्न प्रकारता कधीत्वं, तत्र तेन सम्बन्धेन तस्य भ्रमत्वमित्युक्तौ भ्रमत्वं संसर्गाशे न स्यात् । व्यवयिते च तदंशेपि भ्रमत्वम् । अन्यथा संसर्गाश एव भ्रमत्वं न प्रकारांशे इत्येव स्वीकृत्य तदीयतत्सम्बन्धनिष्ठसांसर्गिक विषयतमकत्वं तत्सम्बन्धस्य भ्रमत्वमिति लक्षणं किं न स्यात् । अथ तस्य विशेषणस्येव तदीय- तत्सम्बन्धस्यापि उक्तप्रकारताकधीत्वमेव तस्मिन् विशेष्ये भ्रमत्वम्, तथापि संयोगेन रूपवानित्यादिज्ञानं रूपांशे संयोगस्य भ्रमो न स्यात्, प्रतियोगितासम्बन्धेन रूपासंबन्धिनः संयोगस्य तेन सम्बन्धेन प्रकार- त्वाभावात् सम्बन्धमानस्य नव्यैरस्वीकारात् । अथ यस्सम्बन्धो यदप्रति- 220 .
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४०
दिखावट