पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

218 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः ज्ञानं चापि जातम् । तच्च सामान्यलक्षणां विनैव तावतैवानु- मितिसिद्धेः । न च सामान्यप्रत्यासत्तिं विना धूमो वहि- व्यभिचारी न वेति अनुभूयमानसंशयो न स्यात्, प्रसिद्धधूमे वढिसम्बन्धावगमात् अप्रसिद्धस्य च अज्ञानादिति वाच्यम्; प्रसिद्धधूम एव तत्तङ्मत्वादिना व्याप्तिनिश्चयेऽपि धूमत्वेन तत्संशयोपपत्तेः । तथाचोक्तं मणिकृता – 'घटत्वेनेतरभेद स्यात्, व्याप्तयादिविषयकज्ञानत्वस्य कारणतानवच्छेदकत्वेन तदंशे भ्रमत्वज्ञानस्य अकिञ्चित्करत्वात्, एवं व्यभिचारादिज्ञानसत्त्वेप्युक्तहेतु- सम्पत्त्या अनुमितिः स्यादिति वाच्यम्; व्याप्तिज्ञानत्वपक्षधर्मता- ज्ञानत्वाभ्यां हेतुत्वद्वयमते वहिव्याप्यधूमवैशिष्ट्यांशे भ्रमत्वेन गृहीता- दिव मन्मतेऽप्युक्तज्ञानादनुमितेरिष्टत्वाद्व्याप्तयादिविषयक ज्ञानत्वेना हेतुत्वे - पि उक्तभ्रमत्वज्ञानाभावानां हेतुज्ञाननिष्ठहेतुतावच्छेदकत्वस्य स्वातन्त्र्येण हेतुत्वस्य वा सम्भवात्, कारणतावच्छेदकजात्यादेरुक्तज्ञानावृत्तित्व- सम्भवेनापत्त्यसम्भवाच्च । एवमुक्तहेतुताद्वयमते वहिव्याप्याभाववानय मित्यादिषीसत्त्व इव व्यभिचारादिधीसत्त्वे कारणसम्पत्त्या अनुमिते- र्मन्मतेपि इष्टत्वात्, संस्कारद्वारा अनुमतिप्रयोजकधीप्रतिबन्धकधी- 1 विषयत्वादेव व्यभिचारादेः हेत्वाभासत्वसम्भवात्, कारणीभूतसंस्कारा- यथार्थत्वज्ञापकव्यभिचारादिज्ञापनार्थं सत्प्रतिपक्षाद्युत्थापनार्थं वा विप रीतनिश्चयस्य संस्कारनाशकत्वमते व्यभिचारादिज्ञानस्य व्याप्तिसंस्कार- नाशकत्वेन तादृशव्यभिचारादिज्ञानार्थं वा उपाध्युपन्याससम्भवात्, कारणतावच्छेदकी भूतजात्यादेर्व्यभिचारादिज्ञानोत्तरकालनिज्ञाने सत्त्वे मानाभावेनाखिलदोषपरिहाराच्च । वह्निसम्बन्धेति । वहिव्याप्तत्यिर्थः । हेतु- 1 संस्कारानुमितिप्रयोजक. रयं संशयः रद्वा · . वा लाघवादि द्वेरिव मन्मते व्याप्तिस्मृतेरपि नावश्यकत्वम् । नारद्वा • . धीप्रतिसम्बन्धकधीविषयत्वादेव. इत्यधिकः पाठः.