पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 1 ग्रहरूपाया विशिष्टज्ञानसामग्रथाः पूर्णत्वात् । व्याप्तिस्मृतिप्र- कारेण वा पक्षधर्मताज्ञानस्य हेतुता; महानसीय एव धूमो धूमत्वेन व्याप्तिस्मृतिविषयो भवति । धूमत्वेन पर्वतीयधूम- पर्वतयिधूमे प्रत्यक्षासम्भवादाह – व्याप्तिस्मृतिप्रकारेण वेत्यादि । यथाश्रुतार्थमिदं प्राभाकरादिमते । अस्मन्मते तु स्मृतिप्रकारेण स्मृतिप्रका- रतायोग्येन विषयो विषयतायोग्यः | योग्यत्वं च उद्बुद्धसंस्कार विषय- त्वम् । तथाच प्राभाकरादिमते व्याप्तिविशिष्टवैशिष्ट्यबुद्ध्यनावश्यकत्व- वत् ' मन्मते व्याप्तिस्मृत्यनावश्यकत्वं, पर्वते धूमज्ञानोत्तरं व्याप्तिविशिष्ट- वैशिष्ट्यस्येव व्याप्तेरपि ज्ञानाकल्पने लाघवात् । न च व्याप्ति- संस्कारत्वेन हेतुत्वे पूर्वाननुभूतव्याप्तेः विशिष्टवैशिष्ट्यानुभवादनुमितिर्न स्यात्, अनुद्बुद्धसंस्कारादनुमितिवारणा योद्वोषकानां नानाविधानां हेतुत्वे च गौरवामिति वाच्यम्; व्याप्तिसंस्कारज्ञानयोः स्वविशिष्टानुमितौ कारणत्वयोः सम्भवात् । स्मृत्युपधायकोद्घोषकानां परेषां स्मृताविवास्मा- कमनुमितौ हेतुतायामगौरवात् । संस्कारहेतुत्वं च स्मृताविवानुमितावपि अन्वयव्यतिरेकसिद्धमस्तु, मास्तु वा । अतएव पञ्चपाद्यां " लिङ्ग- ज्ञानसंस्कारयोः सम्भूय लिङ्गज्ञानहेतुत्वं, संस्कारानुद्वोघे तदभावात्; तस्माल्लिङ्गज्ञानमेव लिङ्गिसम्बन्धसंस्कारमुद्बोध्य तत्सहितं लिङ्गिज्ञानं जनयति" इत्युक्तम् । तत्र स्मृताविवानुमितौ संस्कारस्य हेतुत्व- मस्तु, मा बा । तदुद्बोधकहेतुत्वात्सु । तदुद्बोधकहेतुत्वात्तु तद्धेतुत्वमुक्तमित्याशयेन संस्कारानुहोघे तदभावादित्युक्तम् | उद्धोधकानामपि स्मृताविवान्वय- व्यतिरेकाभ्यां हेतुत्वमस्तु, मा बा, लिङ्गज्ञानमेव वस्तुगत्या अनुमित्य- व्यवहितपूर्ववृत्ति उद्बुद्धसंस्कारादिसहितं जातिविशेषेण शक्तिविशेषेण वा हेतुलघवादित्याशयेन तस्मादित्यादि । न चैवं वह्निव्याप्य - घूमवानित्यादिज्ञानादिदं व्याप्तयाधंशे भ्रम इति धीविषयाद नुमितिः 1 वैशिष्टपबुद्धेरिव. प्रत्यक्षबाधोद्धारः 2 तन्न. 217