पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1:96 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः ' विग्रदादिकं न मिथ्या, स्वबाधकाभिमताबाध्यदोषप्रयुक्त - भानत्वरहितत्वात्' इति साध्यव्यतिरेकसाधने स्वबाधकाभि- मताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमताबाध्यदोषप्रयुक्त भानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् । तच साधनव्यापकमपीति नोपाधिः ; न स्यात्तदा कर्तृजयत्वाभावव्याप्याभावप्रतियोगि न स्यादिति तर्कों नावतरति, लाघवेन जन्यत्वाभावेनैव व्याप्यतासम्भवेन शरीरविशेषण- वैयर्थ्यादिष्टापात्तत्वादिति यथा मण्यादावुक्तम्, एवं स्वबाधकेत्यादि न' मिथ्यात्वव्यापकं, यदि तत्तद्व्यापकं न स्यात् तदा तदभावव्याप्य - स्वाभावकं न स्यादित्यापत्तेरिष्टत्वाल्लाघवाद्दोषप्रयुक्तभानत्वाभावत्वेनैवा - मिथ्यात्वव्याप्यतासम्भवेन स्वबाघकेत्या दिवैयर्थ्यादित्यर्थः । यत्र तु विशिष्टाभावत्वेनैव व्याप्यता व्यर्थाविशेषणत्वाद्यभावात्तत्र विशिष्टरूपेणापि व्यापकत्वं, तर्कप्रसरात् । उक्तं हि मणावीश्वरवादे –“धूमविशेषादौ चन्दनवढ्यादेः कारणत्वाद्विपक्षबाधकेन विशिष्टस्य व्यपकत्वाद्विशिष्टा- भावस्य हेत्वभावव्याप्यत्वं यत्र तु विपक्षे बाधकं नास्ति तत्र विशिष्टव्यापकता नास्ति " इत्यादि । न च शररिजन्यत्वाभावे जन्यत्व - सामान्याभावत्वस्यासत्त्वात्तत्र शरीरांशस्य तेन न वैयर्थ्य, धूमत्वेनेव धूमप्रागभावे प्रागभावत्वस्य स्वसमानाधिकरणव्याप्यतावच्छेदका न्तरघटितत्वस्य व्यर्थविशेषणतारूपत्वादिति वाच्यम्; विशेष्यविशेष- णयोः प्रत्येकाभावयोरेव विशिष्टाभावत्वस्वीकारात्, येन विना व्याप्तिः गृह्यते तदेव व्यर्थविशेषणमिति मते ' वा तथोक्तत्वात् । उक्तं हि मणौ- “उक्तस्थले शरीराजन्यत्वे व्यर्थविशेषणत्वं, लाघवेनाजन्यत्वस्यैव व्याप्यत्वात् येन विशेषणेन विना व्याप्तिर्न गृह्यते तस्यैव व्याप्यताव- च्छेदकत्वनियमात् । अतएव घ्राणं पार्थिवं, रूपादिषु मध्ये गन्धस्यैव 1 स्वबाधकेत्यादिना 2 नैव. 3 साधकेन धूमप्रागभावत्वस्य. १ 4 प्रकृते.