पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेदः] 197 दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनत्वात् । एवं द्विती- योपाधावपि 'स्वबाधकाबाध्यबाधकं प्रति' इति विशेषणं व्यतिरेक साधने व्यर्थम् । विशेष्यभागस्तु साध्यसाधनयोः व्यञ्जकत्वादित्यत्र रूपादिषु मध्य' इति असिद्धिवारकमपि न व्यर्थम्, तेन विना व्याप्तयग्रहात् " इत्यादि । किंच तर्काप्रसरादित्यनेन व्यापक- ताग्राहकतर्कमात्रमुपाधित्वे बीजमुक्तम् । उक्तमण्यादिवाक्येऽपि तथो- क्तम् । तथाच व्यर्थविशेषणत्वाभावेऽपि यथा शरीरजन्यत्वं तादृशतर्का- भावात् न साध्यव्यापकम् । जन्यत्वमात्रं तु तत् यदि कर्तृजन्यत्व' - व्यापकं न स्यात् तदा कर्तृजन्यतावच्छेदकं न स्यादिति तादृशतर्क- सत्त्वात् साध्याव्यापकम् । तथा स्वबाधकेत्यादि न मिथ्यात्वव्यापकं, तादृशतभांवात् । दोषप्रयुक्तभानत्वं तु तद्व्यापकम् । मिथ्याभूतवस्तु- मात्रं यदि दोषप्रयुक्तभानं न स्यात्तदा मिथ्या न स्यात् परमते विय- दादिवदिति तादृशतर्कसत्त्वादित्यत्र प्रकृतग्रन्थतात्पर्यम् । व्यतिरेके व्यर्थत्वं तु तादृशतकाप्रसरबी जमात्रोपलक्षणत्वेनोक्तमिति ध्येयम् || तु ननु यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वं, तस्मिन् साध्ये श्यामत्वमुपाधि, तथा दृश्यत्वादिना मिथ्यात्वे साध्ये दोषप्रयुक्तमानत्वं, 3 तस्मिन् साध्ये मिथ्यात्वमुपाधिः, अस्तु युगपदु- भयसाधने त्वर्थान्तरं, मिथ्यात्व एव विप्रतिपत्तेस्तत्राह - दृश्यत्वादिनेति । युगपदुभयसाधनेपि नार्थान्तरं, मिथ्यात्वत्वावच्छिन्नविधेयकानुमितरुद्दे- श्यत्वादुभयविषयकसमूहालम्बनानुमितेरपि तथात्वादुद्देश्यतानाक्रान्तसि- द्वेरेवार्थान्तरत्वात् । न च तथापि पक्षे साधनवति द्वयोरपि सन्दिग्ध- त्वात्सन्दिग्धात्साधनाव्यापकत्वात्सन्दिग्धोपाधित्व मे कैकस्याक्षतमिति वा- च्यम्; साधने साध्यव्याप्यतानिश्चायकतर्कावतारे तदसम्भवस्योक्तत्वात्, साध्यं च नोपाधिरिति तार्किकोक्तेश्चेति । अथ यथा पर्वतावयववृत्तीति 2 जन्यत्वं. 3 भानवत्त्वं. * तथा विपक्षे. 4 1 पञ्चसु मध्य. सोपाधिकत्वभङ्गः